________________
५२६ ]
बंधविहाणे मूलपयडिठिइबंधो [ मानणासूत्कृष्टस्थितिबन्धवृद्धयादिस्वामि० खल्ववधारणे । किं तदानीमेवाऽन्यदा वेत्याह-"अणंतरखणे" ति उक्तजधन्यस्थितिबन्धप्रारम्भद्वितीयसमये, उपलक्षणत्वात्तृतीयादिसमयेषु, यावदसौ जघन्यस्थितिवन्धः प्रवर्तते तावदित्यर्थः । साकारोपयोगक्षयेणोत्कृष्टस्थितिबन्धादुत्तीर्याऽनन्तरं स्वप्रायोग्यं जघन्यस्थितिबन्धं प्रारभ्य तद्वन्धस्य द्वितीयादिसमयेषु वर्तमानो जीव एवोत्कृष्टावस्थानस्य स्वामी भवतीति पिण्डार्थः॥६९५॥ तदेवमुक्ता ओघतः सप्तानामुत्कृष्टवृद्ध्यादेः स्वामिनः । अथ तानेवादेशतो विभणिपुराहसव्वणिरयेसु तिरिये पणिदियतिरियतिगे णरतिगे य । देव-सहस्सारावहिसुर-दुपणिदियतसेसुय ॥६९६॥ पणमणवय-उरल-विउव-थी-पुरिस-णपुम-विभंग-चक्खुसु। तेउ-पम्हा-सण्णीसु हवेज वड्ढीअ ओघव्व ॥६९७॥ सागारखयेण गओ जेट्ठा तजोग्गहस्सठिइबंधं । स कुणइ हाणिं परमं अणंतरखणे अवट्ठाणं ॥६९८॥
(प्रे०) “सव्वे" त्यादि,सर्वेषु नरकगतिभेदेषु,तिर्यग्गत्योघभेदे,पञ्चेन्द्रियतिर्यग्मार्गणाभेदत्रिके,नरमार्गणाभेदत्रिके, एते द्वेऽपि त्रिकेऽपर्याप्तभेदवर्जिते बोद्धव्ये । चः समुच्चये, देवगत्योघभेदे, सहस्रारकल्पावधिकान्यदेवगत्युत्तरभेदेषु, तथा प्राग्वदपर्याप्तभेदवर्जितयोईयोः पञ्चेन्द्रियभेदयोः, द्विशब्दस्य त्रसेत्यनेनाऽपि योजनात् तथैव द्वयोस्त्रसकायभेदयोः, पञ्चशब्दस्य मनोवचसोः प्रत्येकं योजनात्पश्चमनोयोग-पञ्चवचोयोगौ-दारिक-वैक्रियकाययोग-स्त्री-पुरुष-नपुसकवेद-विभङ्गज्ञान-चक्षुदर्शनेषु, तेजः-पद्मलेश्या-संज्ञिमार्गणाभेदेष्वित्येवमेकपञ्चाशन्मार्गणासु प्रत्येकं “हवेज वजूढोअ
ओघव्व" ति सप्तप्रकृतिसत्कवद्धेः स्वामिन ओघवद्भवन्ति, एतासु प्रत्येकं ‘चउट्ठाणियस्से' त्यादिनाऽभिहितस्वरूपाः संज्ञिपञ्चेन्द्रिया जीवाः सप्तानामुत्कृष्टस्थितिबन्धवृद्धेः स्वामिनो भवन्तीति भावः ।
एतास्वेवोत्कृष्टस्थितिबन्धहान्यवस्थानयोः स्वामिन आह-"सागारखयेणे"त्यादि, अस्याऽप्यक्षरार्थो दर्शितप्रायः । भावार्थस्त्वेवम्-अधिकृतमार्गणासु कुत्रचित्पञ्चेन्द्रियतिर्यगादिमार्गणागतजीवानामेकेन्द्रियतयोत्पादे मार्गणाविच्छेदप्रसङ्गात्, कुत्रचिन्नरकगत्योधादिमार्गणागतजीवानां त्वेकेन्द्रियतयोत्पत्तेरेव प्रतिषिद्धत्वादुत्कृष्टहानेः स्वामिन ओघवन्न सम्पद्यन्ते, अतो याः सर्वोत्कृष्टहानिवर्जाः शेषाः हानयस्तासु या संक्षिपञ्चेन्द्रियाणां जात्यन्तरेऽनुत्पच्या स्वस्थान एव जायमानोत्कृष्टहानिरौघिकोत्कृष्टावस्थानप्रयोजकतया गृहीता सैवात्रोत्कृष्टहानितयालभ्यते। सातु साकारोपयोगक्षयेण ज्येष्ठस्थितिबन्धादुत्तीर्य स्वप्रायोग्यसम्भवदन्तःकोटीकोटीसागरोपमलक्षणजघन्यस्थितिबन्धं कुर्वतः संज्ञिपञ्चेन्द्रियजीवस्य जायते, तद्वितीयादिसमयेषु चौघवदुकृष्टावस्थानमपि लम्यते, इत्येत औधिकोत्कृष्टावस्थानस्वामिन एव समयमयंग जघन्यस्थितिबन्धप्रथमसमयमधिकृत्य प्रस्तुतमार्गणा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org