________________
भघत् उत्कृष्टस्थितिबन्धावस्थान० ] पदनिक्षेपाधिकारे स्वामित्वद्वारम्
[ ५२५
त्ति अनन्तरसमये मृत्यै केन्द्रियजाता ने केन्द्रियतया समुत्पन्नः । एतादृशो हीशान कल्पान्तवासी देव एव भवति, नान्यः, भवचरमसमय उत्कृष्टस्थितिबन्धं कुर्वतां संज्ञिपञ्चेन्द्रियतिर्यग्मनुष्याणामनन्तरसमये नरकगत|वेवोत्पादात्, शेषदेवनारकाणां तु स्वभावत एवैकेन्द्रियतयाऽनुत्पादाच्चेति । अथैकेन्द्रियतया समुत्पन्नः सन्नसौ किं करोतीत्याह--' तप्पा उग्गे 'त्यादि, तत्र चैकेन्द्रियभवप्रथमसमय एव " तप्पा उग्गजहण्णंगओ”त्ति‘तस्य’-ओघोत्कृष्टस्थितिबन्धादुत्तीर्यै केन्द्रियभवप्रथमसमये वर्तमानस्य बन्धप्रायोग्यो यः पल्पोपमासंख्यभागेन न्यूनः सागरोपमत्रिसप्तभागादिप्रमाणो ज्ञानावरणादेर्जघन्यः स्थितिबन्धः स तत्प्रायोग्यजघन्यस्तं 'गतः ' - प्राप्तः, तावत्स्थितिबन्धं कुर्वन्नित्यर्थः । “स कुणइ परमं हाणि " त्ति सः तथा कुर्वन् जीवः ‘परमां - उत्कृष्टां हानिं करोति । आयुर्वर्जसप्तमूलप्रकृतीनामुत्कृष्टस्थितिबन्धहाः स्वामी भवतीत्यर्थः ।
ननु यथा ज्ञानावरणादेरुत्कृष्टां स्थितिं बध्नन् मृत्वैकेन्द्रियेषूत्पद्य तत्र पल्योपमासंख्यभागन्यूनसागरोपमत्रि सप्तभागादिप्रमाणां स्थितिं बध्नन् जीव उत्कृष्टहानेः स्वामी भवति, तथा वैपरीत्येनै केन्द्रियतया तत्प्रायोग्यजघन्यां स्थितिं बध्नन् मृत्वा संज्ञिपञ्चेन्द्रियतयोत्पद्योत्कृष्टां स्थिति वध्नन् जीवः कथमुत्कृष्टवृद्धेः स्वामी नोच्यते ? इति चेद्, न, तथाऽसम्भवात्, यत एकेन्द्रियतश्च्युत्वा यः संशिपञ्चेन्द्रियत्वे प्रथमं स्थितिबन्धं करोति, तस्यासौ प्रथमस्थितिबन्ध उत्कृष्टतोऽप्यन्तः कोटि कोटि सागरोपमप्रमाण एव जायते, तदानीं तत्स्वामिनोऽपर्याप्तत्वात् । इत्थमेकेन्द्रियतश्च्युत्वा संज्ञिपञ्चेन्द्रियतयोत्पद्य नैकहेलयोघोत्कृष्टस्थितिबन्धसम्भवः, तत्कुत उत्कृष्ट वृद्धेरप्यवकाशः; संज्ञिपञ्चेन्द्रियतयोत्पद्यान्तर्मुहूर्तादूर्ध्वमुत्कृष्टस्थितिबन्धभावे तूत्कृष्टतोऽपि यथोक्ता चतु:स्थानिकरसबन्धककृता वृद्धिरुत्कृष्टवृद्धितया सम्पद्यते इति नास्त्युत्कृष्टहानिवद् वैपरीत्येनैकेन्द्रियतश्च्युत्वा पञ्चेन्द्रितयोत्पद्यमानानां भवप्रथम समयवर्तिनामुत्कृष्टवृद्धयवकाश:, अतो न उत्कृष्टवृद्धिस्वामित्वमपि तेषामिति ॥ १४ ॥
अथोत्कृष्टावस्थानस्य स्वामिनः प्रकटयन्नाह
सागारखयेण गओ जेट्टा तज्जोगहस्सठिइबंधं ।
सकुड़ अनंतरखणे उक्कोसं खलु अवट्टाणं ॥ ६९५ ॥
-
(प्रे० ) " सागारखयेणे" त्यादि, “जेट्ठा" त्ति 'ज्येष्ठाद्'- उत्कृष्टस्थितिबन्धात्, सप्तानामौधिक मुकृष्टं स्थितिबन्धं कृत्वेत्यर्थः । " सागारखयेण" ति उत्कृष्टस्थितिबन्धप्रयोजकीभूतस्य साकारोपयोगस्य 'क्षयेण भ्र' शनाद्, अनाकारोपयोगतया परावृच्येत्यर्थः । " तज्जोग्गहस्सठिइबंधं”ति तस्योत्कृष्टस्थितिबन्धं कुर्वतो मिथ्यादृष्टिपर्याप्तसंज्ञिपञ्चेन्द्रियजीवस्यानाऽकारोयोगप्राप्तौ यः प्रायोग्यः 'ह्रस्वः' - सर्वस्तोकः स्थितिबन्धः स तत्प्रायोग्यह्रस्वस्थितिबन्धस्तं "गओ" त्ति 'गतः' - प्राप्तः, अनाकारोपयोगप्राप्त्या तावान् जघन्यस्थितिबन्धो येन कर्तुं मारब्ध इत्यर्थः । "स कुणइ" तिस करोति । किमित्याह - उक्कोसं खलु अवद्वाणं” ति उत्कृष्टमवस्थानम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org