________________
५२४ ]
बंधविहाणे मूलपयडिठिइबंधो [ ओघत उत्कृष्ठस्थितिबन्धहानि० तनस्थितिवन्धस्थाने वर्तमानः । एवम्भूतो ह्यन्तःकोटीकोटीसागरोपमप्रभतेः सर्वोत्कृष्टस्थितेर्बन्धकोऽपि स्यात् ,मध्यमस्थानादनन्तरस्थितिबन्धस्थानप्रभृत्या उत्कृष्टस्थितिबन्धपर्यन्तानां सर्वस्थानानामुपरितनस्थानरूपत्वाद्, अत उक्तम्-अन्तःकोटीकोटीसागरोपमप्रमाणां स्थितिं बध्ननिति ।
ननु यद्येवं तीन्तःकोटिकोटिसागरोपमप्रमाणां स्थितिं बघ्नन्नित्येतावतैव सागरोपमकोटिकोटयादि-तदधिकस्थितेर्बन्धकानां व्यवच्छेदभावात्तावदेव पर्याप्तं स्यात्, किं पुनर्यवमध्यादुपरि वर्तमानस्येत्यनेनाऽपि ? इति चेद, न, चतुःस्थानिकयवमध्यादधस्तादप्यन्तःकोटिकोटिसागरोपमस्थितिकानां बन्धस्थानानां सद्भावेन तद्व्यवच्छेदस्यावश्यकत्वात् । इदमुक्तं भवति-अन्तःसागरोपमकोटिकोटिप्रमाणस्थितेरसंख्येयभेदभिन्नतया यथा यवध्यादुपरितनस्थानेषु वध्यमानेष्वन्त:सागरोपमकोटिकोटिप्रमाणा स्थितिबध्यते,तथा यवमध्ये यवमध्यादधस्तनस्थितिबन्धस्थानेष्वपि चतु:स्थानिकरसवन्धं कुर्वद्भिर्जीवः सा निर्वत्यते, इत्थञ्च यवमध्यादुपरीत्यनुक्ते यवमध्यादधस्तनवतिन्या अन्तःकोटिकोटिसागरोपमप्रमाणायाः स्थितेर्बन्धकस्याऽपि ग्रहणं सम्भवेत्। न च तदिष्टम्, तद्वन्धकस्य तत उत्प्लुत्यैकया हेलयोत्कृष्टस्थितिबन्धस्याऽसम्भवेनोत्कृष्टवृद्धिस्वामित्वाऽसम्भवात्, अतो यस्मात स्थितिबन्धस्थानादनन्तरसमय एकया हेलयोघोत्कृष्टस्थितिवन्धसम्भवस्तादृशमोघोस्कृष्टस्थितिबन्धस्थानात् सर्वदीर्घान्तरेण वर्तमानं यदन्तःकोटिकोटिसागरोपमस्थितिकं बन्धस्थानं तन्निर्वाऽनन्तरसमये तत उत्प्लुत्योत्कृष्टस्थितिबन्धं कुर्वतः प्रकृतोत्कृष्टवद्धिस्वामित्वं भवतीत्येतदर्शनार्थमन्तःकोटिकोटिसागरोपमस्थिति निर्वतयन्नित्यस्येव चतुःस्थानिकयवमाध्यादुपरिवर्तमान इत्यस्याऽपि ग्रहणमावश्यकमिति । ___ इत्थं च चतुःस्थानिकरसयवमध्यादुपरि वर्तमानस्तत्यायोग्यजघन्यपदगताऽन्तःकोटिकोटिसागरोपमलक्षणां स्थिति बध्नन् यः स 'उत्कृष्टेन'-उत्कृष्टस्थितिबन्धप्रायोग्येन संक्लेशेन 'उत्कृष्टां'दीर्घाम् , उत्कृष्टस्थितिबन्धस्पृशामित्यर्थः । एवम्भतां 'डायां'-फाला 'लब्ध्वा'-प्राप्य, अनन्तरोतान्तःकोटिकोटिसागरोपमलक्षणस्थितिबन्धादूर्ध्वमेकमपि स्थितिवन्धमकृत्वेति भावः । तर्हि किं कुर्वन्नित्याह-"जेठिइं बंधतो" त्ति मूलप्रकृतिसत्कौघोत्कृष्टां ज्ञानावरणादीनां प्रागुक्तत्रिंशत्सागरोपमकोटिकोटयादिलक्षणां स्थिति बध्नन् “वलिंढ सकुणइ उक्कोसं' ति स उत्कृष्टां वृद्धिं करोति,उत्कृष्टस्थितिवन्धवृद्धेः स्वामी भवतीत्यर्थः । सप्तप्रकृतीनामिति शेषः । अत्र जातावेकवचनम्, ततस्तादृशा ये केचन ते सर्वेऽप्युत्कृष्टवृद्धिस्वामिन इति ।।६१२-६१३।।
अथौघत एवोत्कृष्टस्थितिबन्धहानः स्वामिनो दर्शयन्नाहपरमठिहं बंधंतो यो मरियेगिदिये समुप्पण्णो।
तप्पाउग्गजहण्णं गओ स कुणइ परमं हाणिं ॥६९४॥ (प्रे०) “परमठिई"मित्यादि, भवचरमसमये ज्ञानावरणादेस्त्रिंशत्कोटिकोटिसागरोपमादिलक्षणामौधिकी 'परमस्थिति'-उत्कृष्टस्थितिं वध्नन् यो जीवः “मरियेगिंदिये समुप्पण्णो"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org