SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ओघत उत्कृष्टस्थितिबन्धवृद्धिस्वामि०] पदनिक्षेपाधिकारे स्वामित्वद्वारम् [ ५२३ (प्रे० ) " मज्झाहिन्तो" इत्यादि, चतुःस्थानिकस्य यवस्य मध्यादुपरि वर्तमानोऽन्तः कोटीकोटिस्थितिबन्धं कुर्वन् यो वर्तते स तत उत्कृष्टसंक्लेशेन उत्कृष्टं डायं लब्ध्वा ज्येष्ठस्थितिं बध्नन् उत्कृष्टां वृद्धिं करोतीति सान्वयः पदसंस्कारः । अथ पदार्थोऽभिधीयते - मूलप्रकृतिरसबन्धविधानग्रन्थे विस्तरेणाभिधास्यमानस्वरूपस्य निपातकीप्रभृतीनां कटुकद्रव्याणां सहजो भागचतुष्टयप्रमाणो भाजनान्तरे क्वथितचतुर्थभागाशिष्टोऽतिकटुकतमो यो रसस्तत्कल्पोऽशुभप्रकृतीनां यचतुः स्थानिको 'रस:' - अनुभागस्तस्य चतुःस्थानिकरस्य यो 'व: ' - चतुःस्थानि करसवन्धकानां प्रायोग्यायाः जवन्यायाः स्थितेरारभ्य सागरोपमशतपृथक्त्वाधिकस्थितिबन्धं यावद्यथोत्तरं प्रतिस्थितिबन्धस्थानेषु विशेषाधिकविशेषाधिकक्रमेण वर्धमानसंख्याकानां बन्धकजीवराशीनां ततः पुनः समय- समयादिस्थितिबन्धवृद्धया निष्पन्नेषूपरितनस्थितिबन्धस्थानेषु ज्ञानावरणादीनां स्वीयस्वीयोत्कृष्ट स्थितिबन्धं यावद् विशेषहीनविशेनक्रमेण हीयमान संख्याकानां बन्धकजीवराशीनां स्थापनामपेक्ष्य या यवाकृतिः 9 (३) (४) (१) Jain Education International (2) (1) → (१) चतुःस्थानिकरसबन्धकानां बन्धप्रायोग्यानि स्थितिबन्धस्थानानि । (२) तत्र सर्वजघन्यस्थितिबन्धस्थानम् अत्र स्तोका बन्धकाः । , (३) जघन्यस्थितेरारभ्य सागरोपमशतप्रक्त्यप्रमाणानि स्थितिबन्धस्थानानि अत्र समयसमयोत्तरेषु स्थितिस्थानेषु विशेषाधिका विशेषाधिका बन्धकाः, इमानि यवमध्यादधस्तनानि स्थितिबन्धस्थानानि । (४) यवमध्यलक्षणं स्थितिबन्धस्थानम्, अत्र सर्वाधिकबन्धकाः । (५) इमानि यवमध्यादुपरितनानि स्थितिबन्धस्थानानि अत्र समय- समयस्थितिवृद्धौ विशेषहीनविशेषहीनबन्धका यावत् त्रिंशत्कोटिकोट्यादिमाना ज्ञानावरणादीनामुत्कृष्टा स्थितिः । (६) यत्र स्थितिबन्धस्थाने वर्तमानो जीव उत्कृष्टडायेनोत्कृष्टस्थितिबन्धं कर्तुं शक्नोति तत्स्थानम् । (७) उत्कृष्टपदगतान्तः कोटिकोटीसागरोपमलक्षणं स्थितिबन्धस्थानम् । (८) यावज्ज्ञानावरणादिमूलप्रकृत्युत्कृष्ट स्थितिबन्धः । ★ एकलया उत्कृष्टस्थितिं गच्छन्नुत्कृष्टस्थितिबन्धवृद्धेः स्वामी । ।।।।।। स्थितिबन्धस्थान प्रदर्शकानि चिह्नानि । तदपेक्षया यो यवः स चतुःस्थानिको यवस्तस्य चतुःस्थानिकस्य यवस्य यन् 'मध्यम्' - यत्र स्थितिबन्धस्थाने सर्वाधिकबन्धकाः सन्ति, तज्जघन्यस्थितिबन्धात्सागरोपमशतपृथक्त्वस्थितिबन्धस्थानान्यतिक्रम्यानन्तरवर्तमानस्थितिबन्धस्थानलक्षणम्, तस्माद्यवमध्यलक्षणस्थितिबन्धस्थानाद्' उपरि' - उप For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy