________________
५२२ ]
बंधविहाणे मूलपयडिठिइबंधो [ओघत उत्कृष्टस्थितिवृद्धयादिस्वामी० मात्राधिकस्थितिबन्धलक्षणा भवति,तत्राऽप्यन्यवृद्धयपेक्षया या लध्वन्तमुहूर्तमात्राधिकस्थितिबन्धरूपा वृद्धिः सैव जघन्या वृद्धिर्भवति, एवं च जघन्यहानिविषयेऽपि विज्ञेयम् ।
जघन्यावस्थानं तु यस्यावस्थानस्य प्रागनन्तरसमये जाता या स्तोका वृद्धिर्हानिश्च तयोर्यदि वृद्धिः स्तोका, हानिरधिका, तदा वृद्धयु त्तरमवस्थानं सर्वजघन्यम् । यदि हि हानिः स्तोका, वद्धिस्तु ततोऽधिका । तदा हान्युत्तरमवस्थानं सर्वजघन्यम् यत्र पुनवृद्धिहानी परस्परं तुल्ये समयमात्र, तत्र त्वन्यतमस्या उत्तरमवस्थानं सर्वजघन्यमिति ।
तद्यथा-ओघतो जघन्या रद्धिर्जघन्या हानिश्च तुल्ये समयमात्रे । कुतः ? सर्वेषां जीवानां पूर्वसमयादुत्तरसमये ममयमात्रेणाधिकस्थितिबन्धस्य हीनस्थितिबन्धस्य च प्रवर्तनसम्भवात् । ततचौघतो जघन्यवृद्धिहान्यन्यतरस्या अनन्तरोत्तरं प्रवृत्तमवस्थानं जघन्यावस्थानतया प्राप्यते । आदेशतः सर्वमार्गणासु प्रायः प्रत्येकं जघन्यवृद्धि-हान्योरोघवन्मिथस्तुल्यभावाज्जघन्यवृद्धि-हान्यन्यतरोतरजायमानमवस्थानं जघन्यावस्थानतया प्राप्यते । कुत्रचिदपगतवेदादिमार्गणादौ पुनर्जघन्यवृद्धयपेक्षया जघन्या हानिः स्तोका प्राप्यते। कुतः? तत्र जघन्यहानेःश्रेणिमारोहतांक्षपकाणां भावात् , जघन्यवृद्धेस्तु प्रपततामुपशमकानां प्रवर्तनात् । ततश्च तत्रावेदादिमार्गणादौ तु केवलं जघन्यहान्युत्तरं प्रवृत्तमवस्थानं जघन्यावस्थानतया प्राप्यते, अर्थादोधत आदेशतश्च सप्तानामपि मूलप्रकृतीनां जघन्यवृद्धि-जघन्यहानि-जघन्यावस्थानलक्षणं पदत्रयमपि सदेव, एतच्च स्वामित्वप्ररूपणेनाल्पबहुत्वप्ररूपणेन च सूपपन्नं भवेदिति नात्र प्रपञ्च्यते । इत्थमोघवदादेशतोऽपि ह्रस्ववृद्धयादीनां त्रयाणामपि सद्भूतपदत्वात् सर्वमार्गणास्वतिदेशेनाह-"एवं सव्वासु"इत्यादि, गतार्थमिति ॥६९१।।
तदेवं दर्शितमोघत आदेशतश्च मूलप्रकृतिस्थितिबन्धविषयकोत्कृष्टजघन्यवृद्धयादिपदानां सत्त्वम् , इत्थं च गतमाद्यं सत्पदद्वारम् ।
॥इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे चतुर्थे पदनिक्षेपाधिकारे प्रथमं सत्पदद्वारं समाप्तम् ।।
॥ अथ द्वितीयं स्वामित्वद्वारम् ॥ माम्प्रतं स्वामित्वद्वारावसरः । तत्रादावुत्कृष्टवृद्ध्यादेः स्वामिन ओघतः प्रतिपादयन्नाहमज्झाहिन्तो उवरिं यवस्स चउठाणियस्स वद्रतो । अंतोकोडाकोडिं ठिइबंधं यो कुणेमाणो ॥६९२॥ लहिऊणं उकोसं डायं उक्कोससंकिलेसेणं । जेठिइ बंधंतो वडिंढ सो कुणइ उकोसं ॥६९३॥ (युग्मम्)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org