________________
॥ पदानका इदानीमधिकृतस्थितिबन्धग्रन्थारम्भे पयणिक्खेवो"इत्यनेन संज्ञामात्रतः कीर्तितस्य चतुर्थस्य पदनिक्षेपाधिकारस्यावसरः । तत्र च त्रीण्यनुयोगद्वाराणि; तान्येवाधिकारारम्भे नामतः क्रमतश्चाह
तुरिये पयणिक्खेवे अहिगारे तिण्णि हुन्ति दाराई।
संतपयं सामित्तं अप्पाबहुगं त्ति जहकमसो ॥६८९॥ (प्रे०) "तुरिये” इत्यादि, 'तुर्ये'-अधिकारक्रमापेक्षया चतुर्थे “पयणिक्खेवे” त्ति प्राग्व्याख्यातस्वरूप भूयस्कारादिविशेषचिन्तनात्मके पदनिक्षेपाभिधेऽधिकारे त्रीणि द्वाराणि भवन्ति । कोऽर्थः १ वृद्धिहान्यवस्थानलक्षणानां भूयस्कारादिस्थितिबन्धविशेषाणां त्रयाणां जघन्योत्कृष्टलक्षणे पदद्वये निक्षेपणात् चिन्तनात् प्रकृताधिकारोऽपि पदनिक्षेप इत्यभिधीयते ।
इदमभिहितं भवति-"पूचसमयाउ समये अणंतरे” इत्यादिना भयस्काराधिकारप्रारम्भेऽनन्तरपूर्वसमयादनन्तरोत्तरसमये अभूततरां स्थिति बनतो या स्थितिबन्धवद्धिस्तामपेक्ष्य भूयस्कारवन्ध इत्यभिहितम् । एवमल्मतरां स्थिति बनतो या स्थितिबन्धहानिः सैवाल्पतरवन्धतया प्रतिपादिता । इत्थमेवानन्तरसमये तावन्मात्रामवस्थितां वध्यमानस्थितिमवस्थितबन्धतया प्ररूपितवान् ग्रन्थकारः । नवरं तत्र भूयस्कारादिबन्धतयाऽभिहितवृद्धयादीनि सामान्यतो जघन्यादिभेदमनधिकृत्यैव दर्शितानि । तानि पुनरुत्कृष्टादिपदे विशेषरूपेण यत्र चिन्त्यन्ते स प्रकृताधिकारः पदनिक्षेप उच्यते । तत्र त्रीणि द्वाराणि सन्ति, (१) सत्पदम् , (२) स्वामित्वम् , (३) अल्पबहुत्वं च । तान्येवाह-"संतपय" मित्यादि, गतार्थम् , केवलं पदनिक्षेपस्य प्रारब्धत्वात् तत्तद्द्वारे उत्कृष्टादिपदगतभ्यस्कारादिरूपवृद्धयादेः सत्पदादिकं चिन्तयिष्यत इति ।।६८९।।
॥ प्रथमं सत्पदद्वारम् ॥ तदेवं कृतमधिकारप्रारम्भेऽधिकारगतानां द्वाराणां नामोत्कीर्तनं सक्रमम् । साम्प्रतं तेषु सत्पदादिद्वारेषु मूलप्रकृतिस्थितिबन्धमधिकृत्य पदनिक्षेपं चिकीर्षुः प्रथमे सत्पदद्वारे सत्पदानि प्रतिपादयन्नाह
परमा वड्ढी परमा हाणी परमं तहा अवडाणं ।
अस्थि य सत्तण्हेवं सब्बासु मग्गणासु भवे ॥६९०॥ (प्रे०) “परमा वढी” इत्यादि, सामान्यतोऽनन्तराधिकारे त्रयोदशद्वारेषु चिन्तिता भूयस्कारलक्षणा स्थितिबन्धवृद्धिः 'परमा'-उत्कृष्टा,अस्य च "अत्थि य सत्तण्ह"इति परेणान्वयः, ततश्च सप्तानामायुर्वर्जानां मूलप्रकृतीनामस्ति-विद्यते, उत्कृष्टस्थितिबन्धवृद्धिपदं सदिति भावः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org