________________
५२० ]
Sitaणे मूलपइबंधो [ ओघादेशत उत्कृष्टस्थितिवृद्वयादिसत्पद० कुतः ? इति चेत्, समयाद्यधिकस्थितिबन्धरूपानुत्कृष्ट वृद्धिभ्यो भिन्नस्य सर्वाधिक स्थितिबन्धवृद्धिरूपस्य भूयस्कारस्याऽत्रोत्कृष्टवृद्धितयाऽधिकृतत्वात् ।
किमुक्तं भवति-यदि ज्ञानावरणादीनामन्तर्मुहूर्तादिलक्षणाज्जघन्यस्थितिबन्धादुत्प्लुत्याऽनन्तरसमये त्रिंशत्सागरोपमकोटी कोट्यादिमानामुत्कृष्टां स्थिति ब्रघ्नत उत्कृष्टा वृद्धिरभिप्रेता स्यात्, एवं यदि वैपरीत्येन त्रिंशत्सागरोपम कोटीको च्यादिलक्षणोत्कृष्ट स्थितिबन्धादुत्तीर्यानन्तरसमय एवातमुहूर्तादिमानं जघन्य स्थितिबन्धं कुर्वत उत्कृष्टा हानिरभिमता स्यात्तथैवैतादृशोत्कृष्ट वृद्धि - हान्योमध्येऽधिकतरस्या उत्कृष्टवृद्धेरुत्कृष्टहानेवऽनन्तरसमयात्प्रवर्तमानस्य तावन्मात्रस्थितिबन्धलक्षणस्यावस्थानस्य यद्युत्कृष्टावस्थानतया ग्रहणमभिमतं स्यात्तदा तथाविधवृद्ध्यादीनामाकालमनुपलब्धेस्तेषां सत्त्वप्रतिपादनं व्योमकुसुमादिसच्चप्रतिपादन व द्विरुध्येत् । न चात्रैवम्, किन्तु याः काश्चित्समयद्विसमयादिवृद्धिलक्षणा वृद्धयस्तासु सर्वाधिकवृद्धिलक्षणायाः शेषानुत्कृष्टबुद्धिभिन्नाया वृद्धेरेवोत्कृष्टवृद्धित्वमभिप्रेतम्, ततश्च सा सामान्यतो मार्गणास्थानेषु च सर्वत्र सम्भवति; अत ओघतो मार्गणास्थानेषु च सर्वत्र ज्ञानावरणस्योत्कृष्टबुद्धिपदं सत्पदतयोक्तम् एवमेव शेषाणामाऽऽयुर्वर्ज - दर्शनावरणादीनामुत्कृष्ट स्थितिबन्धवृद्धिपदस्य सामान्यतो विशेषतश्च सच्चमवसातव्यम् एवमेव वक्ष्यमाणोत्कृष्टहान्यादिविषयेऽपि विज्ञेयम् ।
,
अथ स्थितिबन्धवृद्ध्यादीनां यथोक्तलक्षणानामभिप्रेतत्वाज्ज्ञानावरण। देरुत्कृष्टवृद्धिवदुत्कृष्टहान्यादेरपि सत्त्वं प्रतिपादयन्नाह - "परमा हाणी" इत्यादि, अस्यापि प्रत्येकम् “अस्थि य सत्तण्ह” इति परेणान्त्रयस्तत आयुर्वर्जानां सप्तप्रकृतीनामुत्कृष्टहानिपदं तथैव तासामुत्कृष्टावस्थानपदं च प्रत्येकं सत् । अत्र सप्तानां प्रकृतीनां सर्वेष्वल्पतरस्थितिबन्धेषु यस्मिन्नल्पतरस्थितिबन्धे सर्वाधिक स्थितिबन्धहानिः स परमहानिरूपो बोद्धव्यः भूयस्काराल्पतरस्थितिबन्धेषु यत्र पूर्वसमयापेक्षयाऽधिकं स्थितिबन्धतारतम्यं तादृशस्य भूयस्कारस्याऽल्पतरस्य वाऽनन्तरसमयेष्ववस्थितस्थितिबन्धस्तदा स उत्कृष्टावस्थानलक्षणं पदमवसेयम् ।
लाघवार्थं मार्गणास्थानेष्वतिदेशद्वारेणाह - "एवं सव्वासु" इत्यादि, सुगमं गतार्थं च । अतो मार्गणास्थानेषु चोक्तसत्पदानां भावना तु लाघवार्थं स्वामित्वद्वारे करिष्यत इति ।
इदं तु बोद्धयम् - अनन्तरोक्ते 'अत्थि य सत्तण्ह' इत्यत्र चकारस्स्वल्पाभिधेयत्वाद् भूयस्कारप्ररूपणयैव गतार्थत्वाद्वाऽनुक्तस्याऽवक्ष्यमाणस्य चायुषः समयमात्रतयाऽजघन्यानुत्कृष्टलक्षणस्य हानिपदस्य सत्पदादेः संग्रहार्थमनुक्तसमुच्चये व्याख्येयः । इदमुक्तं भवति - आयुः कर्मणो भूयस्कारस्थितिबन्धलक्षणस्य सामान्यस्याभावान्न विद्यते त िशेषलक्षणमुत्कृष्टवृद्धिपदमपि, सामान्यस्य निवृत्तौ तत्सकलविशेष निवृत्तेरनिवार्यत्वात्, दुःखसामान्यनिवृत्तौ मौल्युदरवेदनादितत्प्रत्येक विशेषनिवृत्तिवत्, एवमायुषोऽवस्थित स्थितिबन्धस्थाभावात्तद्विशेषलक्षणमुत्कृष्टावस्थानपदमप्यसदेव । अवशिष्टं हानिपदं तु वेद्यमानायूरूपाया बध्यमानायुषोऽयावायाः प्रतिसमयं परिगलनात् समय-समय
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International