________________
मार्गणात्रायुषोऽल्पतरादिस्थिति० ] भूयस्काराधिकारे ऽल्पबहुत्वद्वारम्
[.५१७.
बन्धकाः सन्ति । प्रकृतिबन्धाविनाभावित्वात्स्थितिबन्धस्य बन्धप्रायोग्यानां षण्णां प्रकृतीनामिति गम्यते । भावनात्त्रपगतवेदमार्गणावदेव द्रष्टव्येति || ६८५ || अथ शेषमार्गणास्वाहसेसासु सत्तण्हं भूगाराईण दोण्ह सव्वऽप्पा ।
ताहिन्तो णायव्वा अवट्ठिअस्स उ असंखगुणा || ६८६॥
(प्रे०) “सेसासु” त्ति अनन्तरोक्तास्तिर्यग्गत्योघा दिसूक्ष्म सम्परायसंयमपर्यन्ताः सप्तपञ्चा - शन्मार्गणा अपहाय शेषासु नरकगत्योघादित्रयोदशाभ्यधिकशतमार्गणासु प्रत्येकं "सत्तण्ह" ति आयुर्वर्जानां मूलसप्तप्रकृतीनां प्रत्येकं “भूगाराईण दोण्ह सव्वऽप्पा" त्ति भूयस्काराऽल्पतरस्थितिबन्धलक्षणयोर्द्वयोः प्रत्येकं बन्धकास्तुल्याः स्तोकाश्चेत्यर्थः । " ताहिन्तो" ति तेभ्यो ऽनन्तरोक्तेभ्यो भूयस्कारा-ऽल्पतरैकवि बन्धकेभ्योः "णायव्वा अवट्ठिअस्स उ असंखगुणा "त्ति अवस्थितस्य बन्त्रका असंख्यगुणा ज्ञातव्या इत्यर्थः । सुगमं भावितप्रायं चेति । शेषमार्गणाः पुनर्नामत इमा:- अष्टौ नरकगतिभेदाः, चत्वारस्तिर्यक्पञ्चेन्द्रियभेदाः, अपर्याप्तमनुष्य भेदः, सर्वार्थसिद्धविमान मेदवर्जा एकोनविंशदेवगतिभेदाः, सप्तै केन्द्रियभेदाः, नव विकलेन्द्रियभेदाः, अपर्याप्तपञ्चेन्द्रियभेदः, पृथिव्यादिवनस्पतिकायान्तपञ्चकाय सत्का एकोनचत्वारिंशद्भेदाः, औदारिकमिश्र-वैक्रिय-वैक्रियमिश्र - कार्मणकाययोग-स्त्रीवेद-पुरं वेद - विभङ्गज्ञान- देशसंयम-तेजोलेश्या-पद्मलेश्या क्षायोपशमिकसम्यक्त्व-सम्यग्मिथ्यात्व - सासाइना-ऽसंज्ञेय - ऽनाहारकमार्गणाश्चेति ॥ ६८६ ॥
तदेवमुक्तमायुर्वजनां सप्तमूलप्रकृतीनां भूयस्कारादिस्थितिबन्धकाल्पबहुत्वमादेशतोऽपि । साम्प्रतमवशेषस्यायुःकर्मणोऽवस्थिताऽवक्तव्यबन्धकाल्पबहुत्वमादेशतो दिदर्शयिषुर्गाथाद्वयमाह - पंज्जमणुस - मणुसीसु आहार दुगा-ऽऽणताइदेवेसु । मणणाण-संयमेसु समईअ-छेअ - परिहारेसु ॥ ६८७।। सुइल - खइएस थोवाऽवत्तव्वस्साऽऽउगस्स ताहिन्तो । संखगुणाऽप्यरस्स उ असंखियगुणाऽत्थि सेसासु ॥ ६८८ ॥
(प्रे० ) " पज्जमणुसमणुसीसु" इत्यादि, पर्याप्तमनुष्य मानुषी मार्गणयोस्तथाऽऽहारकाऽऽहारकमिश्रका प्रयोगयोर्द्विकमानत कल्पादि सर्वार्थसिद्धविमानान्ताष्टादशदेवभेदास्तेषु, मनः पर्यवज्ञान-संयमौघमार्गणयोः,सामायिक-छेदोपस्थान- परिहारविशुद्धिकसंयममार्गणासु, शुक्ललेश्या - क्षायिकसम्यक्त्वमार्गणयोरित्येतास्वेकोनत्रिंशन्मार्गणासु प्रत्येकमायुर्वन्धकानां संख्येयत्वादवक्तव्यस्थितिबन्धकेभ्योऽल्पतरस्थितिबन्धकाः संख्येयगुणा एव भवन्तीत्यत उक्तम् "थोवाऽवत्तव्वस्साउगस्स ताहिन्तो संखगुणाऽप्पयरस्स उ" इति । असंखियगुणाऽत्थि सेसासु" ति 'थोवाऽवत्तव्वस्साऽऽउग्गस्स' इत्यस्यात्राप्यनुवर्तनादुक्तशेषास्वायुर्वन्धप्रायोग्यासु चतुस्त्रिंशदभ्यधिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org