________________
५१६ ]
बंधविहाणे मूलपडि बिंधो [ मार्गणास्वायुर्वजानां भूयस्कारादिस्थिति०
तच्च भूयस्काराऽल्पतरस्थितिबन्धयोरे कजीवाश्र योत्कृष्टकालस्य तुल्यत्वादिना प्राग्वदुपपादनीयम् । "तओ अवट्ठिअस्स उ" ति तेभ्योऽवस्थितस्य पुनरसंख्यगुणाः, बन्धका इति तु प्राग्वत् । असंख्यगुणत्वमपि प्राग्वत् सदृशस्वामिकत्वें सत्येकजीवाश्रयस्योत्कृष्टबन्धकारस्यासंख्येयगुणत्वादिति हेतोर्विज्ञेयमिति ॥ ६८२ ॥
भूगाराईणऽप्पा दोहं तोऽवअिस्स संखगुणा । सव्वत्थाऽऽहारदुग- समइअ - छेअ - परिहारेसु ॥ ६८३ ॥
(प्रे० ) " भूगाराईणे "त्यादि, सप्तप्रकृतीनां प्रत्येकं 'भूयस्कारादयोः ' -भूयस्काराऽल्पतरलक्षणयोर्द्वयोरल्या बन्धकाः, परस्परन्तु तुल्या इति प्राग्वगम्यते । "तो" त्ति ततोऽवस्थितस्थितिबन्धस्य संख्येयगुणा बन्धका इत्यर्थः । कासु मार्गणास्त्रित्याह - " सव्वस्था हारदुगे "त्यादि, सर्वार्थसिद्धविमानदेवगतिभेदे, आहारका ऽऽहारक मिश्र काययोगद्विके, सामयिक - छेदोपस्थापन- परिहारविशुद्धिकसंयमेष्वित्येवं षण्मार्गणास्वित्यर्थः । तत्र तुल्यत्वं सदृशस्वामिकत्वे सत्येकजी पराश्रयबन्धकालस्य तुल्यत्वात् संख्येयगुणत्वं च जीवानां संख्येयत्वात्प्राग्वद्योज्यमिति ||६८३|| गयवेऽवत्तव्वस्सऽप्पा तत्तो कमेण संखगुणा । भूओगारस्स तओsप्पयरस्सा- अस्स तओ || ६८४ ॥
(प्रे०) "गयवेए” इत्यादि, अपगतवेदमार्गणायां सप्तप्रकृतीनां प्रत्येकमवक्तव्य स्थितिबन्धस्य बन्धका 'अल्पाः' - स्तोकाः । तेभ्यः क्रमेण संख्येयगुणा भूयस्कारस्य, ततोऽल्पतरस्य । अवक्तव्यबन्धकाः संख्येयगुणाः, तेभ्योऽल्पतरस्थ बन्धकाः संख्येयगुणा इत्यर्थः । ननु गतवेदमाणायामपि प्राग्वद्भूयस्काराऽल्पतरस्थितिबन्धयोरेकजीवाश्रयः कालस्तुल्य एकसमयोऽस्ति, तत्कथं भूयस्कारबन्धकापेक्षयाऽल्पतरस्य बन्धकाः संख्येयगुणा उच्यन्ते ! भण्यते - चन्धकालस्य तुल्यत्वेऽपि तयोः स्वामिनो न सदृशाः, किन्तु विसदृशाः, यतो भूयस्कारस्थितिबन्ध उपशमश्रेणितः पततामेव लभ्यते, नान्येषाम् ; अल्पतरबन्धस्तूपशमश्रेणिमारोहतां क्षपकश्रेणिमारोहतां च । इत्थं हि भूयस्कारबन्धका एकविधाः, अल्पतरबन्धकास्तु द्विविधा भवन्ति, ततश्चैकजीवाश्रयोत्कृष्टबन्धकालस्य तुल्यत्वेऽपि बन्धकास्त्वल्पतरस्थितबन्धस्य संख्येयगुणाः सम्पद्यन्त इति || ६८४||
Jain Education International
सुमे सव्वत्थोवा भूओगारस्स ताउ संखगुणा ।
अप्पयरस्स तओ खलु अवट्ठिअस्सऽत्थि संखगुणा ॥ ६८५ ॥
(प्रे०) "सुहमे" ति सूक्ष्मसम्परायसंयममार्गणायां सर्वस्तोका भूयस्कारस्थितिबन्धस्य, बन्धका इति गम्यते । तेभ्यः संख्येयगुणा अल्पतरस्य बन्धकास्तेभ्यः खल्ववस्थितस्य संख्येयगुणा
For Private & Personal Use Only
www.jainelibrary.org