________________
मार्गणास्वायुर्वर्जानां भूयस्कारादिस्थिति०] भूयस्काराधिकारेऽल्पबहुत्वद्वारम्
[ ५१५ ज्ञातव्याः। तेभ्यः संख्येयगुणाः "भूगाराईण दोण्ह णायव्वा" ति भूयस्काराऽल्पतरयोयोः स्थितिबन्धयोः प्रत्येकं ज्ञातव्याः, परस्परन्तु प्रागिव तुल्याः । इयमत्रोपपत्तिः-अधिकृतमार्गणाचतुष्के सप्तानां भूयस्कारा-ऽल्पतरस्थितिबन्धयोरेकजीवाश्रय उत्कृष्टकालो द्वौ द्वौ समयावेव, अन्यच्च सदृशजीवा द्विविधान्धसमर्थाः । तथा च सत्युभयत्र तुल्यसमयनिचितानां तुल्यानामेव बन्धकानां लाभः, ते चोत्कृष्टपदे परस्परं तुल्यपरिमाणाः सन्तोऽपि प्रत्येकं पूर्वोक्तभ्योऽवक्तव्यबन्धकेभ्यः संख्येयगुणा भवन्ति, अवक्तव्यबन्धस्य केषांचित्स्तोकजीवानां कदाचित्समयमेव भावात् । "ताहिन्तो" ति तेभ्यो भूयस्कारा-ऽल्पतरेकविधवन्धकेभ्यः “संखगुणा अवडिअस्स उ मुणेयव्वा" त्ति सप्तानामवस्थितस्थितिबन्धस्य बन्धकाः संख्येयगुणाः ज्ञातव्या इत्यर्थः । अस्यैकजीवाश्रयोत्कृष्टबन्धकालस्य पूर्वापेक्षयाऽसंख्यगुणत्वेऽपि मार्गणागतजीवराशीनामेव संख्येयत्वात् संख्येयगुणत्वस्यैव सम्भवः, न पुनरसंख्येयगुणत्वस्येति भावः ॥६७९-६८०॥
तसद्ग-काय-णयणियर-भविया-ऽऽहारेसु हुन्ति ओघव्व ।
वरि दुतस-चक्खूसुअप्पयरस्स उ असंखगुणा ॥६८१॥ (०) "तसदुगकाये"त्यादि, अपर्याप्तत्रसकायमार्गणायां प्रागभिहितत्वेन तद्वर्जी शेषौ त्रसकायौघ-पर्याप्तत्रसकायरूपौ द्वौ भेदौ, काययोगसामान्य-चक्षुर्दर्शना-चक्षुर्दर्शन-भव्या-ऽऽहारिमार्गणाभेदाश्च तेषु प्रत्येकं “हुन्ति ओघव्व" ति प्रकृताल्पबहुत्वमोघवद्भवति । तद्यथा-सप्तानां प्रत्येकमवक्तव्यस्थितिबन्धकाः सर्वस्तोकाः,ततोऽल्पतरस्थितिबन्धका अनन्तगुणाः,तेभ्यो भयस्कारस्थितिबन्धका विशेषाधिकाः,ततोऽवस्थितस्थितिबन्धका असंख्यगुणा भवन्तीत्यर्थः । इत्थमतिदिष्टे याऽतिप्रसक्तिस्तामुदिधीर्षुराह-"णवरि" इत्यादिना, 'नवरं'-परमयमत्र विशेषः । क इत्याह-“दुतस" इत्यादि। अयम्भावः-त्रसकायोध-पर्याप्तत्रसकायलक्षणयोईयोस्त्रसकायभेदयोश्चक्षुर्दर्शनमार्गणायां च प्रत्येकं जीवा असंख्येया एव सन्ति, न पुनः शेषकाययोगादिमार्गणावदनन्ताः, तथा च सति द्वितीयपदेऽल्पतरबन्धकानामोघवदनन्तगुणत्वस्याऽसम्भव एव, अतस्तत्स्थानेऽल्पतरस्थितिबन्धका अवक्तव्यस्थितिबन्धकेभ्योऽसंख्यगुणा वक्तव्याः, तवं त्वतिदेशानुसारेणीघवदेवेति ॥६८१॥
उरले अवत्तव्वस्स उ थोवा तत्तो य दोण्हऽणंतगुणा।
भूगाराईण तओ अवडिअस्स उ असंखगुणा ॥६८२॥ (प्रे०) "उरलेऽवत्तव्वस्से'इत्यादि, तत्र तुः पुनरर्थे 'उरले' इत्यस्योत्तरं योज्यः, ततः "उरले” त्ति औदारिककाययोगमार्गणायां पुनः सप्तप्रकृतीनां प्रत्येकमवक्तव्यस्थितिबन्धस्य 'स्तोकाः'-सर्वाल्पाः, बन्धका इति गम्यते । ततश्च "भूओगाराईण” ति बहुवचनं प्राकृतलक्षणादादिपदाच्चाल्पतरस्थितिबन्धो गृह्यते, अतो भूयस्काराऽल्पतरस्थितिबन्धलक्षणयोर्द्वयोरनन्तगुणाः, बन्धका इति प्राग्वत् , सममेवानन्तगुणत्वाभिधानात्तयोः परस्परं तुल्यत्वमपि प्राग्वद् बोद्धव्यम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org