________________
५१४ ]
बंधविहाणे मूलपयडिठिइवो [ मार्गणास्वायुर्वर्जानां भूयस्कारादिस्थिति०
एतदेव दर्शयितुमपवादपदमाह - "णवर" मित्यादिना, तदर्थस्त्वयम् - परं लोभमार्गणायां मोहनीयस्यावक्तव्यवन्धसद्भावात् सर्वस्तोका मोहनीयस्याऽवक्तव्यस्थितिबन्धका भवन्ति, तेभ्योऽनन्तगुणा अल्पतरस्य बन्धकाः, तेभ्यो भूयस्कारस्य विशेषाधिका बन्धकाः, तेभ्यश्वावस्थितस्य बन्धका असंख्यगुणा इति । उपपत्तिस्त्वत्र सर्वथैवौघवद् द्रष्टव्येति ॥ ६७४-६७५-६७६॥
अथान्यत्राह -
मणुस-दुपणिंदियेसु पंचमणवयण- तिणाण-ओहीसु । सुइलाए सम्मत्ते खड्अ - उवसमेसु सम्मि ||६७७॥ थोवाऽवत्तव्वस्स उ तत्तो दोन्ह हविरे असंखगुणा । भूगाराईण तओ अवट्टिअस्स य असंखगुणा ||६७८॥
(प्रे०) “मणुसे" त्यादि, व्याख्यानतो विशेषप्रतिपच्त्याऽत्र 'दुपणिंदियेसु" इत्यनेनापर्याप्तभेदव द्वौ पञ्चेन्द्रियभेदौ ग्राह्यौ, ततो मनुष्यगत्योघ-पञ्चेन्द्रियौध-पर्याप्तपञ्चेन्द्रियमार्गणासु, तथा पञ्चमनोयोग-पञ्चवचनयोग-मत्यादिविज्ञाना ऽवधिदर्शनमार्गणासु शुक्ललेश्या मार्गणायां, सम्यक्त्वौघमार्गणायां, क्षायिक सम्यक्त्वौ- पशमिकसम्यक्त्वमार्गणयोः संज्ञिमार्गणायां चेत्येतासु द्वाविंशतिमार्गणासु प्रत्येकं "थोवाऽवत्तव्वस्स उ” इत्यादि, सप्तप्रकृतीनां प्रत्येकमवक्तव्यस्थितिबन्धकाः स्तोकाः, तेभ्यो भूयस्कारा ऽल्पतरस्थितिबन्धलक्षणयोर्द्वयोः प्रत्येकं बन्धकाः “हविरे असंखगुणा" ति असंख्येयगुणा भवन्ति, परस्परं तु तुल्या इति । कथं तुल्याः ? इति चेत्, प्रत्येक मार्गणात्कृष्टपदे तुल्यसमयसञ्चितानां प्रस्तुतद्विविधबन्धकानां लाभात्, येषामेव भूयस्कारबन्धार्हत्वं तेषामेवाल्पतरबन्धार्हत्वाच्च । एवमुत्तरत्राऽपि तत्तद्वन्धकानां परस्परं तुल्यत्वेऽवसातव्यम् । अत एव पदद्वये युगपदसंख्येयगुणत्वाभिधानमपि प्राग्वद् विज्ञेयम् । तेभ्योऽनन्तरोक्तेभ्यो भूयस्काराल्पतरान्यतरबन्धकेभ्योऽवस्थितस्थितिबन्धस्याऽसंख्येयगुणाः, बन्धका इति गम्यते । सुगमम्, अवस्थितस्यैकजीवाश्रयोत्कृष्टबन्धकालस्य पूर्वापेक्षयाऽसंख्येयगुणत्वादिति ॥ ६७७-६७८।।
मार्गणान्तरेष्वाह
पज्जमणुस - मणुसीस मणपज्जवणाण- संयमेसु च । सत्तण्हं सव्वऽप्पाऽवत्तव्वस्स उ मुणेयव्वा ॥ ६७९॥ तत्तो संखेज्जगुणा भूगाराईण दोण्ह णायव्वा । ताहिन्तो संखगुणा अवट्टिअस्स उ मुणेयव्वा ॥ ६८०॥
(प्रे०) "पज्जमणु से "त्यादि, पर्याप्तमनुष्य मानुषी मार्गणयोः, मनः पर्यवज्ञान-संयमौघमार्गणयोश्च प्रत्येकं सप्तानां मूलप्रकृतीनामेकैकस्या अवक्तव्य स्थितिबन्धस्य निर्वर्तकाः । सर्वाल्पा
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International