________________
मार्गणास्वायुर्वर्जानां भूयस्कारादिस्थिति० ] भूयस्काराधिकारेऽल्पबहुत्वद्वारम्
[ ५१३ कानामल्पबहुत्वम् । साम्प्रतमुक्तशेषस्याऽऽयुषो द्विविधबन्धकानां तदर्शयन्नाह-"उग्गस्स णायव्वा" इत्यादि, तत्र विश्लेशप्राप्तस्याऽऽकारस्य दर्शनादायुषः "थोवाऽवत्तव्वस्स उ” त्ति अवक्तव्यस्थितिबन्धस्य स्तोका ज्ञातव्याः, बन्धका इत्यनुवर्तते, अनन्तरवक्ष्यमाणाल्पतरस्थितिबन्धकेभ्य इति गम्यत एव । "अप्पयरस्स य तओ असंखगुणा" ति तेभ्य आयुषोऽवक्तव्यस्थितिबन्धकम्य आयुष एवाल्पतरस्थितिबन्धस्य निर्वतका असंख्यगुणाः, ज्ञातव्या इत्यनुवर्तते । सुगमम् , यत आयुषोऽवक्तव्या-ऽल्पतरस्थितिबन्धयोः सदृशस्वामिकत्वेऽप्युत्कृष्टपदेऽल्पतरस्थितिबन्धसत्कैकजीवाश्रयकाल एकजीवाश्रयाऽवक्तव्यस्थितिबन्धोत्कृष्टकालापेक्षयाऽसंख्येयगुणो भवति, तथा च सनि बन्धकसञ्चयोऽप्यसंख्यगुणः प्राप्यत इति ॥६७२-६७३॥ ___तदेवमुक्तमष्टानामपि मूलप्रकृतीनां भूयस्कारादिबन्धकानामल्पबहुत्वमोघतः । साम्प्रतं तदेवादेशतो मार्गणास्थानेष्वभिधित्सुरादौ तावत्सप्तप्रकृतीनामाह
तिरिय-अपज्जतसेसुणसगम्मि य कसायचउगम्मि । अण्णाणदुगे अयते तिअसुहलेस-भवि-मिच्छेसु ॥६७४॥ सव्वप्पाऽप्पयरस्स उ सत्तण्ह तओ विसेसओऽभहिआ। भूओगारस्स तओ अवडिअस्स उ असंखगुणा ॥६७५॥ णवरं लोहे थोवाऽवत्तव्वस्स उ हवन्ति मोहस्स ।
तत्तो अणंतगुणिआऽप्पयरस्स तओ उ पुबब्व ॥६७६॥ (प्रे०) "तिरियअपज्जतसेंसु” इत्यादि, तिर्यग्गत्योघा-ऽपर्याप्तत्रसमार्गणयोर्नपुंसकवेदमार्गणायाम् । चः पादपूत्यै । क्रोधादिकषायमार्गणाचतुष्के । चः प्राग्वत् । मत्यज्ञानश्रुताज्ञानात्मकयोईयोरज्ञानमार्गणयोः, असंयमे, त्रिकृष्णाघशुभलेश्या--ऽभव्य-मिथ्यात्वमार्गणास्वित्येवमेतासु पञ्चदशमार्गणासु प्रत्येकमित्यर्थः । एतासु प्रत्येकं किमित्याह-"सव्वप्पा” इत्यादि, "सत्तण्ह" त्ति आयुर्वानां सप्तानां प्रत्येकं "सव्वप्पाऽप्पयरस्स" त्ति अल्पतरस्थितिबन्धस्य 'सर्वाल्पाः'सर्वस्तोकाः, बन्धका इति गम्यते । “तओ"त्ति तेभ्यः "विशेषओऽभहिया भूओगारस्स" ति सप्तानां प्रत्येकं भूयस्कारस्थितिबन्धस्य 'विशेषतोऽभ्यधिकाः'-विशेषाधिका इत्यर्थः । बन्धका इति पूर्ववत् । एवमुत्तरत्रापि बोध्यम् । “तओ अवडिअस्स उ असंखगुणा" ति तेभ्योऽनन्तरोक्तभ्योऽवस्थितस्थितिबन्धस्याऽसंख्यगुणा बन्धका इति । एतासु प्रत्येकं प्रस्तुताल्पबहुत्वमोघवदेव भावनीयम्, केवलं तौधिकाल्पबहुत्वे सप्तानामवक्तव्यस्थितिबन्धोऽप्यासीत्, न चासावत्र सामान्यतः कासुचिदपि मार्गणासु लभ्यते, अतः प्रथमं स्थानं विहाय शेषभावना कर्तव्या । विशेपतस्तु लोभमार्गणायां मोहनीयकर्मणोऽवक्तव्यस्थितिबन्धसद्भावात्तस्यां सर्वथैवौघवद् द्रष्टव्यम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org