________________
॥ अथ त्रयोदशमल्पबहुत्वद्वारम् ॥ साम्प्रतं "अप्पबहुग"मित्यनेनोद्दिष्टे चरमेऽल्पवहुत्वद्वारे मूलप्रकृतीनामुत्कृष्टपदगतानां भूयस्कारादिस्थितिबन्धकानामल्पवहुत्वं जिज्ञापयिपुरादौ तावदोघत आह
सत्ताह बंधगाऽप्पाऽवत्तबस्स उ तओ अणंतगुणा। अप्पयरगस्स ताओ भूओगारस्म अब्भहिआ ॥६७२॥ तोऽवडिअस्स णेया अमंखियगुणाऽऽउगस्स णायव्वा ।
थोवाऽवत्तव्वस्स उ अप्पयरस्स य तओ असंखगुणा ॥६७३॥ (गतिः) (प्रे०) "सत्ताह बंधगा" इत्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां प्रत्येकं "बंधगाऽप्पाऽवत्तव्वस्स" त्ति अवक्तव्यलक्षणस्थितिबन्धस्य 'बन्धका:'-निर्वतका 'अल्पाः'-स्तोका इत्यर्थः । अनन्तरवक्ष्यमाणपदापेक्षयेति तु गम्यत एव । कुतः स्तोकाः ? उपशान्तमोहगुणस्थानादिभाव्यवन्धादुत्तीय वन्धप्रारम्भकानां स्तोकानामेव लाभात् । एवमेव वक्ष्यमाणमार्गगास्थानेष्यप्यवक्तव्यबन्धकानां स्तोकत्वं भावनीयमिति । तुः पादपूरणे । “तओ अणंतगुणा" ति 'ततः'-अनन्तरोक्तेभ्यो ज्ञानावरणादेवर, न्यस्थितिबन्धकेभ्योऽनन्तगुणाः । करय बन्धका इत्याह-"अप्पयरस्स" त्ति अल्पतरस्थितिबन्धस्ये यर्थः । सप्तप्रकृतीनामिति त्वनुवर्तते । कुतोऽनन्तगुणाः ? अल्पतरस्थितेबन्धकतयैकेन्द्रियादीनामपि लाभात् , तेषां च सर्वमनुष्यापेक्षयाऽप्यनन्तगुणत्वादिति । “ताओ भूओगारस्स अभहिआ" त्ति तेभ्योऽनन्तरोक्ताल्पतरस्थितिवन्धकेभ्यः सप्तानामेव भूयस्कारस्थितिबन्धस्य बन्धका 'अभ्यधिकाः'-विशेषात इत्यर्थः । कुतः ? उच्यते, पूर्वापेक्षया समयाधिकसञ्चितानां बन्धकानामेकसमये भूयस्कारबन्धकतया लाभात् । इदमुक्तं भवति-प्रागुक्ता अल्पतरस्थितिबन्धका उत्कृष्टतोऽपि त्रिसमयसञ्चिता एव लभ्यन्ते । कुतः ? ओघत एकजीवस्योत्कृष्टतो निरन्तरं त्रिसमयान यावदल्पतरवन्धस्य सन्मवात् । सप्तानामेकजीवाश्रयस्य भूयरकारस्थितिवन्धस्योघिकोत्कृष्टकालस्य चतुःसमग्रमाणत्वेन भूपस्कारवन्धकास्तु चतुःसमयसञ्चिता अपि प्राप्यन्ते । एवं हि सदृशानां तुल्यपरिमाणानां सूक्ष्मैकेन्द्रियादीनां भूयस्काराऽल्पतरवन्धद्वयाहेत्वेऽप्यल्पतरस्थितिवन्धकेभ्यः सप्तानां भूयस्कारस्थितिवन्धकाः समयाधिकसश्चिता इतिकृत्वा विशेषाधिका भवन्तीति । "तोऽवटिअस्स या असंखियगुणा” त्ति तेभ्यः सप्तानां भूयस्कारस्थितिबन्धकेभ्योऽवस्थितस्थितिववस्वाऽसंख्येवगुणा ज्ञेयाः, बन्धका इत्यनुवर्तत इति । अत्रापि पूर्ववत्प्रस्तुतबन्धस्य सदृशस्वामिकत्वे सत्येकजीवाश्रयतद्वन्धकालभ्योत्कृष्टतो भूयस्कारबन्धकालादसंख्यगुणाधिकभावाद् बन्धकसञ्चयोऽप्यसंख्यगुणः सम्पद्यत इति ज्ञेयम् । उक्तमायुर्वर्जसप्तानां प्रत्येकं भूयस्कारादेवन्ध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org