________________
ओघादेशतो भूयस्कारादिस्थितिबन्धे भावः ] भूयस्काराधिकारे भावद्वारम्
[ ५११ (प्रे०) "भावेणे" त्यादि, ओघतः सर्वमार्गणास्थानेषु च बन्धप्रायोग्यानां ज्ञानावरणादीनामष्टानामपि मूलप्रकृतीनामन्यतमस्याः प्रकृतेभूयस्कारादीनां सर्वेषां स्थितिवन्धसत्पदानां बन्ध उत्कृष्टादिस्थितिवन्धवदौदयिकेन भावेन भवतीति गाथाक्षरार्थः । भावार्थस्तु द्वितीयाधिकारभावद्वार उत्कृष्टादिस्थितिबन्धविशेषाणां कषायोदयलक्षणोदयिकभावप्रत्ययत्वसाधनेनैव गतार्थः ।
न च भूयस्कारस्थितिबन्धस्य समयाद्यधिकस्थितिबन्धरूपत्वाद्भवतु तत्र कपायोदयरूप औदयिकभावो हेतुः, अल्पतरस्थितिवन्धेऽपि कथमसौ युज्येत, तस्य समयादिहीनस्थितिबन्धरूपत्वेन तत्र तावत्कायोदयहानेरेव हेतुतया युज्यमानत्वात्, तस्याश्च तावत्कपायोदयाभावलक्षणायाः कषायोदयप्रतिपक्षत्वेन कपायोदयरूपोदयिकभाववहिस्त्वात् ? इति चेद , न, अल्पतरस्थितिबन्धे पूर्वसमयापेक्षया हीनस्थितिबन्धभावेऽपि नासौ स्थितिबन्धहानलक्षणस्थितिबन्धाभावरूपः, किन्तु समयादिस्थितिवन्धहान्योत्तरसमयजायमानस्थितिवन्धरूप एव, अन्यथा सूक्ष्म सम्परायचरमस्थितिवन्धे ज्ञानावरणादीनामन्तमुहर्तादिस्थितिबन्धात्तदुत्तरसमय उपशान्तमोहगुणस्थाने स्थितेरबन्धं कुर्वतां स्थितिबन्धाभावप्रवृत्या स्थितिबन्धहानेः सम्पद्यमानत्वात्तेपामप्यल्पतरस्थितिबन्धस्वामित्वं स्यात् , न च तद्भवति, तेषामुपशान्तमोहगुणस्थानप्रथमसमयवर्तिनां तत्र पूर्वसमयजायमानान्तमुहर्तादिस्थितिबन्धस्य सर्वथा हानेरपि स्थितिबन्धस्यैव सर्वथाऽप्रवर्तनेनाऽसंख्येयानां स्थितिबन्धस्थानानां मध्ये स्थितिबन्धहान्याऽन्यतमस्थितिबन्धस्थाननिर्वर्तनलक्षणस्याऽल्पतरस्थितिबन्धस्याऽयुज्यमानत्वात् । न च सूक्ष्मसम्परायचरमस्थितिबन्धादबन्धं कुर्वतां पूर्वसमयबध्यमानस्थितेर्हानिसम्भवेऽपि तत्र तेपां ज्ञानावरणादिप्रकृतीनामेव बन्धाभावेन न विद्यते तेषां ज्ञानावरणादेरल्पतरस्थितिबन्धस्तदभावेऽल्पतरस्थितिबन्धस्वामित्वञ्च, सति प्रकृतिवन्धं तस्याभिमतत्वादित्यपि वाच्यम् । यतस्तथात्वेऽपि उपशान्तमोहगुणस्थाने वेदनीयवन्धस्य सर्वसम्मतत्वेन वेदनीयस्य तु तदापयेतैव । इत्येवमल्पतरस्थितिबन्धो न स्थितिबन्धहानिरूप एव, किन्तु पूर्वसमयादनन्तरोत्तरसमये स्थितिबन्धहान्या बध्यमानान्यतमस्थितिबन्धस्थानरूपः । स च कषायोदयाभावे न लभ्यत इत्यतो भूयस्कारादिस्थितिबन्धवदल्पतरस्थितिवन्धेऽप्योदयिकभावहेतुर्भवत्येव । इत्येवमल्पतरस्थितिबन्धेऽपि कषायोदयलक्षणोदयिकभाव एव हेतुतया युज्यत इत्यलं प्रपञ्चितेनेति ॥६७१।।
तदेवं दर्शितमोघत आदेशतश्चाष्टमूलप्रकृतीनां भूयस्कारादिस्थितिबन्धा अप्युत्कृष्टादिस्थितिबन्धवदोपशमिकादिभावानां मध्ये औदयिकेन भावेन जायन्त इति । तस्मिँश्च दर्शिते गतं भावद्वारम् ।
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे तृतीये भूयस्काराधिकारे द्वादशं भावद्वारं समाप्तम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org