________________
५०८]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानां भूयस्कारादिस्थिति० सम्बध्यते, तत उक्तशेषासु निरयगत्योघादिषडुत्तरशतमार्गणासु "सिं” ति सप्तानां भूयस्काराऽल्पतरस्थितिबन्धलक्षणयोर्दयोः पदयोस्तथाऽपर्याप्तमनुष्यायेकादशमार्गणास्ववस्थितबन्धस्य"भवे लहु समयो” ति 'लघु-जघन्यं नानाजीवाश्रयमन्तरं समयो भवेत् । सगमम् ।
एतदेवोत्कृष्टतः प्राह--"पल्लासंखियभागो" इत्यादि, 'भगाराईण तिण्ह' इत्येतावत्पूर्वगाथातोऽनुवर्तते, ततो भूयस्कारादित्रिविवस्थितिबन्धस्य प्रत्येकमपर्याप्तमनुष्य-सम्यग्मिथ्यात्व-सास्वादनलक्षणमार्गणात्रये "गुरु" ति नानाजीवाश्रयमुत्कृष्टमन्तरं पल्योपमासंख्येयभागप्रमाणं भवति । वैक्रियमिश्रकाययोगमार्गणास्थाने तु तत् 'बोडव्वं बारस मुहुत्ता" ति द्वादशमुहूर्ता बोद्धव्यम् । "आहार दुगे" त्ति आहारक-तन्मिश्रकागयोगमार्गणाद्वयलक्षण आहारकद्विक पुनस्तद्भयस्कारादित्रिविधस्थितिबन्धानां नानाजीवाश्रयमुत्कृष्टमन्तरं “णेयं वासपुहत्तं" ति वर्षपृथक्त्वं ज्ञेयं भवति । अपगतवेद-सूक्ष्मसम्परायसंयममार्गणयोस्तु "भूओगारस्स वरिसपुहुतं" ति सप्तानां प्रकृतीनां भयस्कारलक्षणस्यैकविधस्थितिबन्धस्य प्रस्तुतोत्कृष्टान्तरं वर्षपथक्त्वं ज्ञेयम् , न वल्पतरा-ऽवस्थितलक्षणयोः स्थितिबन्धयोरपीति भावः । तर्हि तयोः कियद्भवतीत्याह--"इयराण छम्मासा" ति अवक्तव्यान्तरस्य पूर्वमतिदिष्टत्वाद् , भयस्कारान्तरस्यानुपदमेवाऽभिहितत्वाच्चाऽवक्तव्य-भूयस्कारेतरयोरल्पतरा-ऽवस्थितस्थितिबन्धयो प्रत्येकं पण्मासा भवति, न पुनभू यस्कारान्तरवद्वर्षपृथक्त्वम् , मार्गणाद्वयेऽप्युपशमकानामेव भूपस्कारस्थितिबन्धस्वामित्वात् , तेषां चारित्रमोहोपशमकानामुत्कृष्टान्तरस्य वर्षपथक्त्वाच्च । उक्तश्च जीवसमासे-'वासपुहुत्तमुवसामएसु' इति ।
शेषपदद्वयस्य तु न केवला उपशमका एव स्वामिनः, किन्तु क्षपका अपि, क्षपकाणां तूत्कृप्टान्तरं पण्मासा एव । उक्तञ्चैतदपि जीवसमासे-खबगेसु छम्मासा' इति । इत्थं च तदधीनं प्रस्तुतान्तरमपि पण्मासा एव भवतीति तथैव दर्शयन्नाह-"इयराण छम्मासा" इति । गतार्थम् , केवलम् "इयराण" ति उक्ततरथोरल्पतरा-ऽवस्थितस्थितिबन्धलक्षगयोयोः पदयोरिति । "भूओगाराइण"मित्यादि,परिहारविशुद्धिकसंयमे छेदोपस्थापनसंयमे चेत्येवं मार्गणाद्वयेऽवक्तव्यस्याऽसत्पदत्वाच्छेषाणां भूयस्कारादीनां त्रयाणामपि स्थितिबन्धसत्पदानां प्रस्तुतनानाजीवाश्रयोत्कृष्टान्तरं “जलहीण कोडिकोडीओ" ति 'जलधीनां -सागरोपमाणां कोटिकोटयोऽष्टादश विज्ञेयमिति। "सत्त दिवसा उवसमें" ति सप्त 'दिवसाः'-वासरा औपशमिकसम्यक्त्वमार्गणायां "तिपयाण" त्ति अबक्तव्यस्थितिबन्धप्रस्तुतान्तरस्य 'जहि स भवे तस्स तहिं एवं' (गाथा-६६५) इत्यनेनातिदियत्वाच्छेषाणां भूयस्कारादीनां त्रिविधस्थितिवन्धपदानामित्यर्थः । एतास्वपर्याप्तमनुष्यायेकादशसान्तरमार्गणामु प्रस्तुतान्तरं सर्वथा द्वितीयाधिकारनानाजीवाश्रयान्तरद्वारोक्तज्ञानावरणाद्यनुत्कृष्टस्थितिवन्धोत्कृष्टान्तरवत् तत्तदपर्याप्तमनुष्यादिमार्गणानामुत्कृष्टान्तरस्य पल्योपमाऽसंख्येयभागादिप्रमाणत्वात्साध्यम् । यः पुनरपगतवेद-सूक्ष्मसम्परायसंयममार्गणयो यस्कारोत्कृष्टान्तरविषये विशेषः, स तूपशमकानामेव तद्वन्धकत्वात्साधित एवेति ।
www.jainelibrary.org
For Private & Personal Use Only
Jain Education International