________________
मार्गणास्त्रायुषोऽल्पतरस्थितिबन्धादि० ] भूयस्काराधिकारेऽन्तरद्वारम्
1
“दुपयाण सेसासु भिन्नमुहुत्तं" ति भूयस्काराऽल्पतरलक्षणद्विविधस्थितिबन्धसत्पदयोः प्रस्तुतान्तरस्यासंख्यलोक-तदधिकवन्धकपरिमाणासु तिर्यग्गत्योघादिचतुःषष्टिमार्गणासु प्रतिषिद्धत्वात् तास्तिर्यग्गत्योघादिचतुःषष्टिमार्गणास्तथाऽपर्याप्तमनुष्याद्येकादशसान्तरमार्गणासु प्रस्तु तान्तरस्याभिहितत्वाता एकादशमार्गणा विहाय शेषासु निरयगत्योघादिपञ्चनवतिमार्गणासु प्रस्तुतान्तरं 'भिन्नमुहूर्तम्' अन्तर्मुहूर्त भवति । गतार्थम् । केवलं शेषमार्गणा इमाः - सर्वे निरयगतिभेदाः सर्वे पञ्चेन्द्रियतिर्यग्भेदाः, मनुष्यौघ तत्पर्याप्त मानुषीमार्गणाः सर्वे विकलेन्द्रियपञ्चेन्द्रियभेदाः, पर्याप्तवादरपृथिव्यप्तेजोवायु-पर्याप्तप्रत्येक वनस्पति सर्वत्र काय भेदाः सर्वे मनोवचोयोगभेदाः, वैक्रियकाययोगः, स्त्री-पुरुषवेदौ, मत्यादिज्ञान चतुष्कम्, विभङ्गवानम्, संयमीव-सामायिकसंयम- देशसंयमाः, चक्षुर्दर्शना-यधिदर्शने, शुभलेश्यात्रयम्, सम्यक्त्वाघ - क्षायिक सम्यक्त्व- क्षायोपशमिकसम्यक्त्वानि संज्ञिमार्गणास्थानञ्चेति ।
"
,
तदेवं प्रतिपादितं सर्वमार्गणासु भूयस्कारादित्रिविवस्थितिबन्धस्याऽपि नानाजीवाश्रयमन्तरं द्विधा । साम्प्रतमायुषोऽल्पतरा ऽवक्तव्यस्थितिबन्ध सत्पदयोस्तद्विभणिपुरतिदेशेनाह - " सव्वह आउस्से" त्यादि, अत्रैव स्थितिबन्धग्रन्थे द्वितीयाधिकारनानाजीवाश्रितान्तरद्वारे'जहि सम्बद्धा कालोऽणुकोसटिई आउगस्स भवे । तहि तीअ अंतरं णो सेसामु भवे लहुं समयो ॥ पचिदियतिरिय-विंगल-पििदय-तसेसु सिं अपज्जेसु । भिन्नमुहुत्तं जेट्ठ' अण्णह णाउण णेयव्वं ॥४२६ ||' इति गाथायेनाऽयुषोऽनुत्कृष्टस्थितेर्यन्धकानां जघन्यत उत्कृष्टतश्च यावत्समयादिकमन्तरं प्रतिपादितं तावत् "दुपयाणं" ति आयुषोऽवक्तव्याऽल्पतरस्थितिबन्धलक्षणोद्वयोः सत्पदयोः प्रत्येकमपि जघन्यत उत्कृष्टतश्च विज्ञेयम् ।
[ ५०९
,
"
कथमनुत्कृष्टस्थितिबन्धान्तरवदतिदिष्टम् ? इति चेद् उच्यते, यथाऽयुषः प्रकृतिवन्धाभावे न भवति तस्याऽनुत्कृष्टस्थितिबन्धः, प्रकृतिबन्धसद्भावे तु प्रतिप्रकृतिबन्धमसावायुपोऽनुत्कृष्टस्थितिबन्धो भवत्येव ततश्च प्रागायुषोऽनुत्कृष्टस्थितिबन्धान्तरं तदीयप्रकृतिबन्धान्तरवत्तत्र तत्र सर्वाद्धासमया-ऽन्तर्मुहूर्तादिप्रमाणं प्रतिपादितं तथैवाऽऽयुषः प्रकृतिवन्धाभावे न भवति प्रस्तुतद्विविधस्थितिबन्धोऽपि प्रकृतिबन्धसद्भावे तु प्रतिप्रकृतिबन्धमसौ द्विविधोऽपि स्थितिबन्धः प्रवर्तत एवेत्येवमायुषोऽनुत्कृष्टस्थितिबन्धान्तरयदायुषोऽल्पतरा --ऽवक्तव्यस्थितिबन्धयोरपि नानाजीवाश्रयं प्रस्तुतान्तरं प्रकृतिबन्धवदुत्पद्यते, ततचतत्प्रकृतिबन्धान्तरवक्तव्यं भवति, यद्यप्येवं तथाऽपि प्रकृतिबन्धनानाजीवाश्रयान्तरस्य दूरेण प्ररूपितत्वात् तदुपेक्ष्यानुत्कृष्टस्थितिबन्धनानाजीवाश्रयान्तरस्यात्रैव मूलप्रकृतिस्थितिबन्धेऽनन्तरे द्वितीयाधिकारे प्रतिपादितत्वेन संनिकृष्टत्वादायुषोऽनुत्कृष्टस्थितिबन्धनानाजीवाश्रयान्तरवदति दिष्टमिति । विशेषोपपच्यर्थं त्वनुत्कृष्टस्थितिबन्धनानाजीवाश्रयान्तरविवृतिविलोकनीयेति ।। ६६६-...६७०।।
तदेवं प्ररूपितमायुषोऽल्पतरा ऽवक्तव्य द्विविधस्थितिबन्धसत्पदयोरपि नानाजीवाश्रयमन्तरमतिदेशद्वारेणैव । तस्मिँश्च प्ररूपिते समाप्तमेकादशं नानाजीवाश्रयमन्तरद्वारम् ||
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org