________________
मागणास्त्रायुर्वजानां भूयस्कारादि० ]
भूयस्काराधिकारेऽन्तरद्वारम्
[ ५०७
“जहि स भवे तस्स तहि एवं" ति आदेशतः 'यत्र' यासु मनुष्यगत्योघादिमार्गणासु स सप्तानामवक्तव्य स्थितिबन्धो 'भवेत् ' -पत्पदद्वारे सन् प्रतिपादितः " तहि" त्ति 'तत्र' वासु मनुष्यौध-पर्याप्तमनुष्य-मानुषी-पञ्चेन्द्रियौध-तत्पर्याप्त-सौध-तत्पर्याप्त-सर्वमनोवचोयोग-काययोगौघौ-दारिककाययोगा-ऽपगतवेद-मति श्रुताऽवधि-मनः पर्यवज्ञान-संयमौघ-चक्षु-रचक्षु-रवधिदर्शन-शुक्ललेश्याभव्य-सम्यक्त्वौष-क्षायिका-पशमिकसम्यक्त्व-संश्याऽऽहारकमार्गणास्वायुर्वर्जसप्तानां लोभमार्गणायां मोहनीयकर्मणश्च “एवं” ति ओघवद्, अवक्तव्यस्थितिबन्धस्य जघन्यमन्तरं समयः, उत्कृष्टं वर्ष पृथक्त्वं चेत्यर्थः । जघन्योत्कृष्टद्विविधमपि प्रस्तुतान्तरं सुगमम् मनुष्यौघादिमार्गणास्थानेष्वप्योघवदुपशान्ताद्वाक्षयादिना प्रतिपततामेवाऽवक्तव्य स्थितिबन्धस्वामित्वादिति || ६६५।।
तदेवमोघतः सप्तप्रकृतीनामवक्तव्यस्थितिबन्धस्यैव नानाजीवाश्रयान्तरस्य सम्भवाद्दर्शितं तत्, लाघवार्थमतिदेशेनादेशतोऽपि च । साम्प्रतमुक्तशेषपदानां तदादेशतो दिदर्शयिपुरार्यापञ्चकमाहसतह जासु कालो भूगाराईण तिन्ह सव्वद्धा । णो तासु अंतरं सिं सेसासु भवे लहूं समयो ॥ ६६६॥ पल्लासंखियभागो अपज्जणर - मीस सासणेसु गुरु । araमीसजोगे बोद्धव्वं बारह मुहुत्ता ||६६७॥ आहारदुगे णेयं वासपुहुतं अवेअ- सुहुमेसु । भूओगारस्स वरिसपुहुत्तमियराण छम्मासा ॥६६८ ॥ भूगाराईणं तिहं जलहीण कोडिकोडीओ । अट्ठारस विष्णेयं परिहारविसुद्धि-छेएस ॥६६९॥ सत्त दिवसा उवसमे तिपयाणऽत्थि दुपयाण सेसासु । भिन्नमुहुत्तं सव्वह आउस्स अगुरुठिइव्व दुपयाणं ||६७०॥
(प्रे०) "सत्तण्हे" त्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां यासु तिर्यग्गत्योघादिमार्गणा " कालो भूगाराईण तिन्ह सव्वाडा" त्ति शेषाणां भूयस्कारा - ऽल्पतरा - ऽवस्थितस्थितिबन्धलक्षणानां त्रयाणां पदानां "कालो" नानाजीवाश्रयः कालोऽनन्तरद्वारे सर्वाद्धा प्रतिपादित इत्यर्थः। "णो तासु अंतरं सिं" ति तासु तिर्यग्गत्योघादिचतुःषष्टिमार्गणासु “सिं” ति भूयस्कारा - ऽल्पतरलक्षणयोर्द्वयोः स्थितिबन्धयोः, तथाऽपर्याप्तमनुष्यादिसान्तरमार्गणावर्जासु निरयगत्योघाद्येकोनषष्ट्यभ्यधिकशतमार्गणास्ववस्थितस्थितिबन्धस्य नानाजीवाश्रयमन्तरं न भवतीत्यर्थः । नानाजीवाश्रयकालद्वारेऽमीषां पदानां सर्वाद्धोपपादनेनैव गतार्थमिदमिति । उक्तशेषमार्गणासु पदत्रयस्याऽपि प्रस्तुतान्तरस्य सम्भवात्तज्जघन्यादिभेदेनाह - "सेसासु" इत्यादि, “सि” मितिपदमत्राऽपि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org