________________
॥ अथैकादशमन्तरद्वारम् ॥
प्राप्तं नानाजीवाश्रयमेकादशमन्तरद्वारम् । अत्र तु मूलकर्मणां भूयस्कारादिस्थितिबन्धसत्पदानां नानाजीवाश्रितं जघन्योत्कृष्टभेदभिन्नमन्तरं प्ररूपणीयम् । तत्रौघतस्तावद्येषां तन्न भवति तेषां तत्प्रतिषेधयन्नाह -
भूओगाराईणं तिन्हं सत्तण्ह अंतरं णत्थि ।
एमेव जाणिव्वं दोहं वि पयाण आउस्स ||६६४॥
,
(प्रे०) “भूओगाराईण” मित्यादि, “सत्तण्ह" त्ति आयुर्वर्जानां सप्तमूलप्रकृतीनां "भूओगाराईणं तिहं" ति अवक्तव्यस्थितिबन्धान्तरस्याऽनन्तरगाथायां प्रतिपादनीयत्वादवक्तव्यस्थितिबन्धवर्जानां‘भूयस्कारादीनां'- भूयस्कारा- ऽल्पतरा -ऽवस्थितस्थितिबन्धलक्षणानां त्रयाणां "अंतरं णत्थि " ति नानाजीवाश्रयमन्तरं 'नास्ति' न भवति । इदं हि भङ्गविचयद्वारे प्रस्तुतभूयस्कारादिबन्धकानां ध्रुवत्वप्रतिपादनात् कालद्वारे नानाजीवाश्रयकालस्य सर्वाद्वायाः प्रतिपादनाद्वा गतार्थमेवेति नात्र पुनः प्रपञ्च्यत इति । इत्थमुत्तरत्राऽपि भूस्कारादिवन्धकानामन्तर प्रतिषेधस्तत्तद्बन्धकानां ध्रुवत्वादिसाधनेनैव साधितो द्रष्टव्य इति । अथाऽयुषोऽवक्तव्या-ऽल्पतरस्थितिबन्धपदद्वयस्य बन्धकानां वत्वस्य सर्वाद्धाया वा प्रतिपादितत्वेन तस्याऽपि प्रस्तुतान्तरं नैव भवतीति तदपि प्रतिसिषेधयिषुरतिदेशेनाह - "एमेव इत्यादि, यथा सप्तानां भूयस्कारादिस्थितिबन्धात्रयस्य प्रस्तुतान्तरं न भवति तथाऽऽयुषोऽवक्तव्याऽवस्थितस्थितिबन्धलक्षणयोर्द्वयोरपि सत्पदयोस्तन्न भवतीत्यक्षरार्थः । भावार्थोऽपि कथित एवेति || ६६४ ||
उक्तशेषस्य सप्तानामवक्तव्य स्थितिवन्वस्य नानाजीवाश्रयान्तरस्य सद्भावात्तज्जघन्योत्कृष्टभेदतो दर्शयन् लाघवार्थं मागणास्थानेष्वतिदिशश्वाह
सत्तण्हं कम्माणं लहू' अवत्तव्वगस्स समयोऽत्थि ।
वासपुहुत्तं जे जहि स भवे तस्स तहि एवं ॥ ६६५ ॥
(प्रे०) “सन्तण्ह' मित्यादि, आयुर्वेर्जानां सप्तानां मूलप्रकृतीनां "लहु अवत्तव्वगस्स समयोऽत्थि" त्ति अवक्तव्य एव अवक्तव्यकस्तस्याऽवक्तव्यकस्थितिबन्धस्य 'लघु' - जघन्यं नानाजीवाश्रयमन्तरं समयोऽस्ति । "वासपुहुत्तं जेट्ठ" ति तस्यैवावक्तव्यस्थितिबन्धस्य 'ज्येष्ठम् ' - उत्कृष्टमन्तरं वर्षपृथक्त्वं भवति । कथम् ? इति चेद्, अवक्तव्यस्थितिबन्धस्वामिनामुपशमाद्धा भवक्षयेण वा प्रतिपततामन्यान्योपशमकानां समयान्तरेणाऽवक्तव्य स्थितिबन्धकतया लाभसम्भवात्, उपशमकानामुत्कृष्टान्तरस्य वर्षपृथक्त्वतया तदधीनस्योत्कृष्टान्तरस्य तथा लाभाच्चेति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org