________________
५०४ ]
- बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुषोऽल्पतरस्थितिबन्धादि० मार्गणावर्जासु शेषनिरयगत्योधादिमार्गणासु प्रस्तुतकालोऽसर्वाद्धेत्यतस्तं जघन्यादिभेदेनाह"सेसासु" इत्यादिना, उक्तशेषास्वेकोत्तरशतमार्गणासु “अवत्तव्वस्स समयो हस्सो" त्ति आयुषोऽवक्तव्यस्थितिबन्धस्य निर्वर्तकानां 'ह्रस्वः'-निरन्तरजघन्यकालः 'समयः'-समयमात्रो भवति । अयमपि सुगमः, एकजीवाश्रयस्य तस्य जघन्यतः समयमात्रत्वेनाऽत्रापि तथैव सम्भवात्। अथोत्कृष्टकालप्रतिपादनाय लाघवार्थं व्याप्तिरेवाह-"जहि" इत्यादि, यत्र मार्गणास्थानेषु प्रस्तुताऽवक्तव्यस्थितिबन्धस्य "बंधगाऽस्थि संखा" ति 'बन्धकाः'-निर्वर्तकाः प्राक परिमाणद्वारे 'पज्जमणुस-मणुसीसु'इत्यादिना (६२८-६२९)गाथाद्वये संख्येयाः प्रतिपादिताः सन्ति, "तहि" त्ति 'तत्र'-पर्याप्तमनुष्य---मानुष्या-नतकल्पादिसर्वार्थसिद्धविमानान्ताष्टादशदेवगतिभेदा-ऽऽहारकतन्मिश्रकाययोग-मनःपर्यवज्ञान-संयमोघ-सामायिक-छेदोपस्थापन-परिहारविशुद्धिकसंयम-शुक्ललेश्याक्षायिकसम्यक्त्वलक्षणास्वेकोनत्रिंशन्मार्गणासु “से संखसमया गुरू णेयो" ति तस्याऽऽयुपोऽवक्तव्यस्य प्रस्तुतत्वान्निरन्तरो बन्धकसत्त्वकालो नानाजीवाश्रयवन्धकालो वा 'गुरु:'-उत्कृष्टः संख्येयाः समया ज्ञेयः। सुगमः, बन्धकपरिमाणस्योत्कृष्टतः संख्येयत्वादेकजीवाश्रयोत्कृष्टकालस्याऽपि समयतया संख्येयसमयमात्रत्वाच्चेत्येवंप्रकारेणोपपादनीयेति ।।
"सेसासु" ति तिर्यग्गत्योघाद्या द्विषष्टिमार्गणाः पर्याप्तमनुष्याचा एकोनत्रिंशन्मार्गणाश्च विहाय या शेषाः, यासु प्रस्तुतपदं सद्भूतं ता वैक्रियमिश्रकाययोगादिवर्जा निरयगत्योघादिद्विसप्ततिमार्गणास्तासु शेषमार्गणासु प्रस्तुत आयुषोऽवक्तव्यस्थितिबन्धकानामुत्कृष्टो निरन्तरकाल: "विण्णेयो आवलिआए असंखंसो" त्ति एकस्या आवलिकाया असंख्येयतमे भागे यावन्तस्समयास्तावान् विज्ञेयः । अयमपि प्रागिवैकजीवाश्रयोत्कृष्टकालस्य संख्येयसमयमात्रत्वादित्यादिना साध्य इति ।
___ अथाऽऽयुषोऽल्पतरस्थितिबन्धकानां द्विविधोऽपि कालस्तिर्यग्गत्योघादिद्विपष्टिमार्गणासु प्रतिषिद्धः, अतस्तच्छेपास्वसौ जघन्योत्कृष्टभेदेनाह- "पणमणे" त्यादि, पञ्चमनोयोगभेद-पञ्चवचोयोगभेद-वैक्रियकाययोगा-ऽऽहारक-तन्मिश्रकाययोगलक्षणासु त्रयोदशमार्गणासु "जहण्णगो
यो अप्पयरस्स खणो" त्ति आयुषोऽल्पतरस्थितिबन्धस्य जघन्य एव जघन्यकः स च प्रस्तुतत्वान्नानाजीवाश्रयकालः 'क्षणः'-समयो भवेत् । सुगमः, आयुर्वन्धे प्रवर्तमानेऽपि प्रस्तुतमार्गणानां मार्गणान्तरतया परावर्तनस्य शक्यत्वेनैकजीवाश्रयकालवन्नानाजीवाश्रयोऽप्ययं समयमात्रः सम्पद्यते । न चैवं तर्हि क्रोधकषायादिमार्गणानामपि तथात्वेन ताः क्रोधकषायादिमार्गणा अप्यत्र कथं न संगृहीता इत्यारेकणीयम् । क्रोधकपायादिमार्गणासु तथैव काययोगादिमार्गणासु तिर्यक्पञ्चेन्द्रियादिजीवराश्यपेक्षया समयमात्रस्य प्रस्तुतकालस्य सम्भवेऽपि तत्राऽनन्तानामेकेन्द्रियजीवानामपि प्रवेशेन तेषु चान्यान्यजीवानां प्रस्तुतबन्धकतया नैरन्तर्येण लाभेन प्रस्तुतबन्धकानां ध्रुवत्वस्य प्रतिपादितत्वादिति । "पणह"त्ति प्रस्तुतस्यायुषोऽल्पतरस्थितिबन्धस्य नानाजीवाश्रयोजघन्यकालः
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only