________________
मार्गणास्वायुःकर्मणोऽल्पतरादि० ]
भूयस्काराधिकारे कालद्वारम्
[ ५०३
संयममार्गणास्थाने पुनरसौ पञ्चाशल्लक्षकोट्य: 'अतराः' - सागरोपमाणि भवेत् । परिहारविशुद्धिकसंयममार्गणास्थाने तु "देसूणा दोणि पुव्वकोडीओ" त्ति देशोनपूर्वकोटिद्वयं भवति । तदेवमपर्याप्तमनुष्याद्येकादशसान्तरमार्गणासु तत्तन्मार्गणाया नानाजीवाश्रयोत्कृष्टावस्थानकालाधीनः सप्तानामवस्थितस्थितिबन्धस्य नानाजीवाश्रयोत्कृष्टकालः पल्योपमासंख्येयभागादिप्रमाणो दर्शितः । स च सप्तानामनुत्कृष्टस्थितेर्नानावन्धकाश्र योत्कृष्ट कालवदेव साधनीयः सप्तानामनुत्कृष्ट स्थितिबन्धवदवस्थित स्थितिबन्धस्याऽपि जीवितबहुकालभावित्वादिति । "एआसु लहू समयो" ति एतास्वनन्तराभिहिताऽपर्याप्त मनुष्याद्येकादशमार्गणासु प्रत्येकं सप्तानामवस्थितस्थितिबन्धस्य नानाजीवा - श्रयो 'लहू' त्ति जघन्यकालः समयो भवेत्, अयं त्वेक जीवाश्रयजघन्यकालस्य तथात्वात्प्राग्वत्साध्यः । “हव्वेज्ज सेसासु सव्वडा" ति उक्तैकादशमार्गणा अपहाय शेषासु निरयगत्योधाद्ये कोनषष्टयभ्यधिकशतमार्गणासु तु प्रस्तुतः सप्तानामवस्थितस्थितिबन्धस्य नानाजीवाश्रयः कालः सर्वाद्धा भवेत् । अयमप्यनुत्कृष्टस्थितिबन्धनानाजीवाश्रयकालवदेव साध्यः, यद्वा भङ्गविचयद्वारे तद्बन्धकानां ध्रुवत्वसाधनादेव साधितो बोद्धव्य इति ॥ ६५५-६५९।।
तदेवं प्रतिपादितः सप्तकर्मणां भूयस्कारादिस्थितिबन्धकालोऽपि सर्वमार्गणास्थानेषु । इदानीमुक्तशेषस्याऽऽयुःकर्मणोऽल्पतरा - ऽवक्तव्यस्थितिबन्धकानां तं व्याचिकीषु रार्याचतुष्टयमाह - जहि बंधगाऽत्थि णियमा बासडीअ दुपयाणऽऽउस्स तहिं । सव्वद्धा सेसासु समयोऽवत्तव्वगस्स लहू ॥ ६६०॥ जहि बंधगाऽपि संखा तहि से संखसमया गुरू यो । सेसासु विष्णेयो आवलिआए असंखंसो ॥६६१ ॥ पण मणवयेसु विवे आहारदुगे जहण्णगो यो । अप्पयरस्स खणोऽण्णह भिन्नमुहुत्तं मुणेयव्व ॥ ६६२॥ जहि बंधगाऽत्थि संखा तहि तस्स भवे गुरू मुहुत्त्तो । सेसासु असंखयमो भागो पलिओवमस्स भवे ॥ ६६३॥
(प्रे० ) " जहि बंधगा" इत्यादि, तत्र “जहि" इत्यस्याऽन्वयः 'बासडीअ' इत्यनेन, ततो यत्र द्विषष्टिमार्गणासु "बंधगाऽत्थि नियम" ति अस्य च 'दुपयाणऽऽउस्स' इति परेणावयस्तत आयुषोऽवस्थिता ऽवक्तव्यस्थितिबन्धलक्षणयोर्द्वयोः 'पदयोः' सत्पदयोर्बन्धकाः' - निर्वर्तका नियमात्सन्ति-सर्वदा लभ्यन्ते, पदद्वयमपि पूर्वं भङ्गविचयद्वारे 'तिरये सव्वेगिंदिये 'त्यादि-(६०४६०५ -६०६) गाथात्रये ध्रुवमभिहितमिति भावः । " तहिं सव्वडा" ति तत्र तिर्यग्गत्योघादिद्विषष्टिमार्गणासु तयोर्द्वयोः पदयोर्बन्धकानां कालः सर्वाद्धा भवतीत्यर्थः । गतार्थः । उक्तद्विषष्टि
I
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org