________________
बंधवहाणे मूलप डिठिइबंधो [ मार्गणास्वायुर्वर्जानां भूयस्कारादि ० योग-नपुंसकवेद-क्रोधादिकषाय चतुष्क-मत्यज्ञान - श्रुताज्ञाना-संयमाऽचक्षुर्दर्शन- कृष्ण-नील- कापोतलेश्या-भव्या-भव्य-मिथ्यात्वाऽसंज्ञयाऽऽहारका ऽनाहारकरूपासु चतुःषष्टिमार्गणासु 'सिं' ति तयोभूयस्कारा - ऽल्पतरलक्षणयोर्द्वयोः स्थितिबन्धसत्पदयोर्नानाबन्धकाश्रयः कालः सर्वाद्धा भवति । अयं हि सर्वाद्धकालोऽनन्तरोक्तनीत्या ध्रुवदभावनयैव व्याख्यातार्थो न पुनर्व्याख्यायत इति ।
५०२ ]
"सेसासु भवे लहू समयो" ति तिर्यग्गत्योघादिचतुःषष्टिमार्गणा अपहाय शेषासु नरकगत्योघादिषडभ्यधिकशतमार्गणासु प्रस्तुतसप्तकर्मसत्कभूयस्कारा- ऽन्यतरस्थितिबन्धसत्पदयोर्नानाबन्धकाश्रयो 'लघु:'- जघन्यः कालः समयो भवेत् । सुगमः, शेषनिरयगत्योघादिमार्गणासु प्रस्तुत पदद्वयस्याध्रुवत्वेन सावधिकस्तन्नानाजीवाश्रयो जघन्यः कालोऽप्युक्तनीत्यैकजीवाश्रयजघन्यबन्धकालवत्समयमात्रो लभ्यत इति ।
अथोत्कृष्टत आह-‘“जासु ं हवेज्ज" इत्यादि, यासु मार्गणासु तासां सप्तमूलप्रकृतीनां भूयस्कारस्याऽल्पतरस्य वा स्थितिबन्धस्य निर्वर्तकपरिमाणं संख्येवमुक्तं तासु पर्याप्तमनुष्य मानुष्यादिद्वादशमार्गणासु तस्य भूयस्कारादिस्थितिबन्धस्य नानाजीवाश्रयः " जेडो” त्ति उत्कृष्टकालः संख्येथाः समया भवेदिति । यासु पुनर्निरयगत्योघादिचतुर्नवतिमार्गणासु तद्बन्धकपरिमाणमसंख्येयं तामु तस्य भूयस्कारादिस्थितिबन्धस्य नानाजीवाश्रय उत्कृष्टकालोऽसंख्येयाः समया भवेदित्येतदेव दर्शयन्नाह - "जासु असंखा तासु आवलिआए असंखंसो" इति, गतार्थम् ।
पर्याप्तमनुष्यादिद्वादशमार्गणास्त्विमाः - पर्याप्तमनुष्य - मानुषी सवार्थसिद्ध विमानदेवगतिभेदाऽऽहारक-तन्मिश्रकाययोगा- ऽपगतवेद-मनः पर्यवज्ञान-संयमौघ- सामायिक-छेदोपस्थापनपरिहारविशुद्धिक-सूक्ष्मसम्पराय संयमाः ।
निरयगत्योघादयस्त्विमा: - अष्टौ निरयगतिभेदाः, चत्वारः पञ्चेन्द्रिय तिर्यग्भेदाः, मनुष्यौध-तदपर्याप्तभेदौ, सर्वार्थसिद्धविमान भेदवर्जा एकोनत्रिंशदेवगतिभेदाः, नव विकलेन्द्रियभेदाः, त्रयः पञ्चेन्द्रियभेदाः, बादरपर्याप्तपृथिव्यप्तेजोत्रायु-पर्याप्तप्रत्येक वनस्पतिकायलक्षणाः पञ्च भेदाः, त्रयस्त्रमकायभेदाः सर्वे मनोवचोयोगभेदाः, ते च दश, वैक्रिय-वैक्रियमिश्रकाययोगी, स्त्री-पुवेदी, मति-श्र -श्रुताऽवधिज्ञानानि, विभङ्गज्ञानम्, देशसंयमः, चक्षुर्दर्शना-ऽवधिदर्शने, शुभलेश्यात्रयम्, सम्यक्त्वौघ- क्षायिक- क्षायोपशमिकौ-पशमिक-सासादन सम्यग्मिथ्यात्वानि संज्ञिमार्गणाभेदश्चेति ।
अथाऽवस्थितस्थितिबन्धस्य प्रस्तुतकालमाह - " असमत्तणरे" इत्यादि, अपर्याप्तमनुष्यवैक्रियमिश्रौ-पशमिकसम्यक्त्व - सासादन सम्यग्मिथ्यात्वलक्षणास पञ्चमार्गणास्वाऽऽयुर्वर्ज सप्तप्रकृतीनामवस्थितस्थितिबन्धस्य प्रस्तुतो नानाजीवाश्रयः कालः “जेडो" त्ति उत्कृष्टः पल्योपमस्याऽसंख्येयभागप्रमाणोः भवेत् । आहारक- तन्मिश्रकाययोगयोरपगतवेद-सूक्ष्मसम्पराय संयमयोश्चेत्येवं चतसृषु मार्गणा त्वसावुत्कृष्टकाल: 'भिन्नमुहूर्तम्' अन्तर्मुहूर्त ज्ञेयः । “ए” त्ति छेदोपस्थापन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org