SearchBrowseAboutContactDonate
Page Preview
Page 573
Loading...
Download File
Download File
Page Text
________________ ५०० ] बंधविहाणे मूलपयडिठिइबंधो [ भूयस्कारादेर्नानाजीवाश्रयकालोपपत्ति इदमुक्तं भवति-ओघतो मार्गणास्थानेषु वा यत्र कुत्रचिद् यस्याः कस्या अपि प्रकृतेर्यस्य कम्यापि भूयस्कारादिस्थितिबन्धस्य निर्वतका भङ्गविचयद्वारे 'तिरिये सव्वेगिदिये' इत्यादि(५९८...)गाथावृत्तौ दर्शितनीत्या ध्रुवं प्राप्यन्ते, तत्र मार्गणादौ तस्याः प्रकृतेस्तस्य भयस्कारादिस्थितिबन्धस्य नानाजीवाश्रयः प्रस्तुतकालः सर्वाद्धा प्राप्यत इति तु सुगमः, अत एवाऽनन्तरमोघतः सप्तप्रकृतीनां भूयस्कारादित्रिविधस्थितिबन्धस्याऽऽयुषो द्विविधसत्पदयोश्चासौ सर्वाद्धा कथितस्तियंग्गत्योधादिमार्गणास्थानेषु तथा वक्ष्यते च । स च तत्तयस्कारादिबन्धकानां ध्रुवत्वसाधनयैव गतार्थो बोद्धव्यः । यत्र पुनस्ते भयस्कारादिबन्धका भङ्गविचयद्वारोक्तनीत्या ध्रुवं न लभ्यन्ते,कदाचित्प्राप्यन्ते कदाचित्तु नापि प्राप्यन्त इत्यर्थः । एतेषां कादाचित्कसर्वथाऽभावलक्षणमन्तरं भवतीति यावत् । तत्र तु तस्य भूयस्कारादे नाजीवाश्रयः कालो न सर्वाद्धा, किन्तु सावधिक एव । स च तस्य भूयस्कारादेबन्धकपरिमाणमुत्कृष्टपदे संख्येयं भवत्वसंख्येयं वा तदापि जघन्यतस्तस्य भूयस्कारादेरेकजीवाश्रयजघन्यवन्धकालेन तुल्य एवं प्राप्यते, उत्कृष्टतस्त्वसौ बन्धकपरिमाणाधनुसारेण पूर्वोक्तनीत्या यथासम्भव संख्येयसमया-ऽऽवलिकाऽसंख्येयभागादिप्रमाणः सम्पद्यते । तद्यथा-यस्य भयस्कारादेजीवितासंख्येयभागमात्रसम्भविनः स्थितिबन्धस्यैकजीवाश्रय उत्कृष्टोऽपि काल एक यादिसंख्येयाः समया एव, तदीयबन्धकपरिमाणमपि संख्येयमेव च, तस्य नानाजीवाश्रयः प्रस्तुतबन्धकालोऽप्युत्कृष्टतः संख्येयाः समया एवं प्राप्यते, केवलमयमेकजीवाश्रयोत्कृष्टवन्धकालापेक्षया संख्येयगुणो भवति । यदि च तस्य बन्धकपरिमाणमसंख्येयं भवति तदा त्वसौ नानाजीवाश्रय उत्कृष्टकालः कामणकाययोगमागेणोक्तसप्तकमसत्कोकृष्टस्थितिवन्धनानाजीवाश्रयोत्कृष्ट कालवदावलिकाऽसंख्यभागप्रमाणः प्राप्यते, अत एवौघतो मार्गणास्थानेषु चाऽऽयुर्वर्जसप्तमूलप्रकृतीनामवक्तव्यस्थितिबन्धस्यासावुत्कृष्टकालः संख्येयाः समया अभिहितः, अनन्तरम्'जासं हवेज्ज संखा तासुं संखसमया भवे जेहो। जासु असंखा तासु आवलिश्राए असंखंसो' ।।६५६।। इत्यनेन पर्याप्तमनुष्यादिसंख्येयवन्धकपरिमाणासु मार्गणासु आयुर्वज सप्तानां भूयस्कारादेः प्रस्तुतकाल उत्कृष्टतः संख्येया समयाः, नरकगत्योघाद्यसंख्यवन्धकपरिमाणासु वालिकाऽसंख्येयभागप्रमाणोऽभिधास्यते च । यस्य पुनस्तादृशस्य जीवितासंख्येयभागमात्रसम्भविनः स्थितिवन्धविशेषस्यैकजीवाश्रयोत्कृष्टकालोऽन्तमुहूर्तप्रमाणत्वादसंख्येयाः समयास्तस्य तु बन्धकपरिमाणस्य संख्येयत्वे तदीयनानाजीवाश्रयोत्कृष्टकालोऽन्तमुहूर्तमेव लभ्यते, केवलमन्तमुहूर्तमिदमेकजीवाश्रयवन्धकालाऽपेक्षया संख्येयगुणं भवति । यदि च तादृशस्यैकजीवमाश्रित्योत्कृष्टतोऽसंख्येवसामयिकस्य स्थितिबन्धविशेषस्य बन्धकपरिमाणं संख्येयं तदा तु तदीपनानाजीपाश्रय उत्कृष्टः कालः पल्योपमासंख्येयभागप्रमाणः सम्पद्यते, अत एव 'जहि बंधगा अस्थि संखा तहि तस्स भवे गुरू मुहुत्तंतो । सेसासु असंखयमो भागो पलिओवमस्स भवे' ॥६६३।। इत्यनेनायुषोऽल्पतरस्थितिबन्धस्य नानाजीवाश्रयमुत्कृष्टं कालं पर्याप्तमनुष्यादिसंख्येयबन्धकपरिमाणास्वन्तमुहूर्तमभिधाय नरकगत्योघाद्यसंख्येय For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy