________________
॥ अथ दशमं कालद्वारम् ॥ एतर्हि क्रमप्राप्तनानाजीवाश्रयकालद्वारावसरः । तत्रौधत आदेशतश्च मूलकर्मसत्कभूयस्कारादिस्थितिबन्धसत्पदानां जघन्योत्कृष्टभेदभिन्नं नानाजीवाश्रयं कालं प्रतिपिपादयिषुरादौ तावदोषतः प्रतिपादयन्नाह
सब्बद्धा तिपयाणं भगाराईण सत्तकम्माणं ।
तह आउस्स पयाणं दोण्हं कालो मुणेयब्वो ॥६५३॥ (प्रे०) “सव्वडा" इत्यादि, आयुर्वर्जानां सप्तमूलकर्मणां "तिपयाणं भूगाराईण" त्ति अवक्तव्यस्थितिबन्धकालस्यानन्तरं वक्ष्यमाणतया तहर्जानां 'भूयस्कारादीनां' भूयस्कारा-ऽल्पतरा-ऽवस्थितस्थितिबन्धलक्षणानां त्रयाणां पदानां तह आउस्स पयाणं दोण्ह" ति तथाऽऽयु:कर्मणोऽल्पतरा-ऽवक्तव्यस्थितिबन्धलक्षणयोर्द्वयोरपि सत्पदयोः “कालो" त्ति नानावन्धकाश्रयकालः, निरन्तरो बन्धकसचकाल इति यावत् । “मुणेयव्वो" अस्य च “सव्वडा" इति पूर्वेणान्वयस्ततः सोद्धा ज्ञातव्य इत्यर्थः । सुगमश्चायम् , एतेषां पदानामेकेन्द्रियाद्यनन्तजीवस्वामिकत्वादिति । यद्वा भङ्गविचयद्वारे ध्रुवत्वसाधनादेव गतार्थ इति ।।६५३।।
उक्तशेषस्य सप्तानामवक्तव्यस्थितिबन्धस्य नानाजीवाश्रयकालमोघतः प्रतिपिपादयिषुरविशेषाल्लाघवार्थं मार्गणास्थानेष्वपि सममेव प्राह
सत्तण्ह लहू समयोऽवत्तव्बस्स परमोऽत्थि संखखणा ।
जहि अत्थि तस्स बंधो तहि तस्सेमेव विण्णेयो ॥६५४॥ (प्रे०) “सत्तण्ह' इत्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनामवक्तव्यस्थितिबन्धस्य "लहू समयो” त्ति प्रक्रमान्नानाजीवाश्रयो 'लघुः'-जघन्यः कालः समयो भवति । “परमोऽत्थि संखखणा" ति स एव सप्तानामवक्तव्यस्थितिबन्धकालः 'परमः'-उत्कृष्टः 'संख्यक्षणाः' - संख्येयाः समया भवति ।
____ अथ लाघवार्थ मार्गणास्थानेष्वतिदेशद्वारेणाह-"जहि अत्थि” इत्यादि, "जहि"त्ति 'यत्र' यासु मनुष्यगत्योघादिमार्गणासु "अत्थि तस्स बंधो" ति तस्य सप्तान्यतमकर्मणोऽवक्तव्यस्य बन्धः ‘णरतिगदुपणिंदियतस-पणमणवयणे'त्यादिना सत्पदद्वारे सन्नभिहितः "तहि" ति 'तत्र'-तासु मनुष्यौघादिमार्गणासु "तस्सेमेव विष्णेयो" ति तस्याऽवक्तव्यस्थितिबन्धस्य प्रस्तुतत्वान्नानाजीवाश्रयो बन्धकाल: 'एवमेव'-ओघवदेव, जघन्यत एकसमयः, उत्कृष्टतः संख्येयाः समयाच विज्ञेयः । कथम् ? इति चेद् , एकजीवाश्रितस्योत्कृष्टस्यापि कालस्य समयमात्रत्वात् , बन्धकपरिमाणस्याऽप्युत्कृष्टतः संख्येयत्वाच्च ।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org