________________
४९८ ]
9
बंध विहाणे मूलपयडिठिइबंधो [ भूयस्कारादिबन्धकस्पर्श नायन्त्र० स्थितिबन्धकैरपि प्रत्येकं त्रसनायाश्चतुर्दशभागरूपाः षट्भागाः स्पृष्टाः सन्तीति गम्यते, यद्वाऽस्पृश्यन्तेत्यनुवर्तत इति । प्रावदेव भावनीयैषा, नवरं सहस्रारकल्पान्तदेवानामेत्राधस्तृतीयपृथिवीं यावद्गमनमभिहितम्, न पुनस्तदुपरिवर्तिनामपि तेषामानतादिकल्पचतुष्कजानां सुराणां जिनजन्ममहोत्सवादिनिमित्तानधिकृत्याऽपि तिर्यग्लोकं यावदेव गमनात् । तथाच सत्यधोलोकसत्करज्जुद्वयस्पर्शनाया असम्भवः, अतस्तावतीं स्पर्शनां विवर्ज्य षड्जवः स्पर्शना द्रष्टव्येति ॥ ६५१ ॥ अथैकयाssया शेषमार्गणासु प्रस्तुतस्पर्शनां व्याकुर्वन्नाहदेणजगं बायरए गिंदियवाउसव्वभेएस |
सेसासु असंखयमो भागो लोगस्स छुहिओ तिथ ॥६५२॥
(प्रे०) देसुणजगमित्यादि, ओघ - पर्याप्ताऽपर्याप्तभेदभिन्नेषु सर्वेषु बादरैकेन्द्रियभेदेषु, सर्वेषु बादरवायुकायभेदेष्वित्येवं पण्मार्गणासु प्रत्येकं प्रविष्टवादरपर्याप्त चादरापर्याप्तान्यतरवायुकायिकानां देशोन लोकप्रमाणस्वस्थानक्षेत्रापेक्षया प्रस्तुताऽयुषोऽवक्तव्याऽल्पतरस्थितिबन्धकानां स्पर्शनाSपि "देसूणजगं" त्ति देशोनं जगल्लभ्यत इति । "सेसासु असंखयमो भागो" त्ति उक्तशेषासु नरकगत्योघादिचतुःषष्टिमार्गणासु तु प्रस्तुतद्विविधबन्धकैर्लोकस्याऽसंख्येयतम एको भागः स्पृष्टोऽस्ति, लोकाऽसंख्यभागप्रमाणा तेषां स्पर्शनेति भावः । कथम् ? इति चेद्, एतास्वन्यतमस्यामपि स्वस्थानतो गमनागमनतो वा लोकाऽसंख्यभागादधिकक्षेत्र व्यापिनः सूक्ष्मैकेन्द्रियादिजीवराशेरप्रवेशादिति ।। ६५२ ।।
तदेवं प्रदर्शिता शेषमार्गणास्थानेष्वप्यायुषोऽल्पतरा ऽवक्तव्य द्विविध स्थितिबन्धकानां स्पर्शना । तथा च गतं नवमं स्पर्शनाद्वारम् ||
कस्याः प्रकृतेः
आयुर्वर्जससमूलप्रकृतीनाम्
आयुषः
अष्टमूलप्रकृतीनां भूयस्कारादिस्थितिबन्धकानां स्पर्शनाप्रदर्शकं यन्त्रकम्
भूयस्कारादेः कस्य बन्धकानाम्
कुत्र ?
कियती स्पर्शना
श्रोघतः, यत्र सन् | सर्वथाऽनुत्कृष्टस्थितिबन्धतत्र सर्वमार्गणासु च कानां स्पर्शनावन्
लोकाऽसंख्यभागः
Jain Education International
भूयस्कारा-ऽल्पतरा-ऽवस्थितानां प्रत्येकम्
अवक्तव्यस्थितिबन्धस्य
अल्पतरा ऽवक्तव्यस्थितिबन्धयोः प्रत्येकम् |
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे तृतीये भूयस्काराधिकारे नवमं स्पर्शनाद्वारं समाप्तम् ॥
22
"1
सर्वथाऽनुत्कृष्टस्थितिबन्धकवत् |
For Private & Personal Use Only
www.jainelibrary.org