________________
मार्गणास्वायुषोऽल्पतरस्थितिबन्धादि०] द्वितीयाधिकारे स्पर्शनाद्वारम्
[ ४९७ ऽवक्तव्यस्थितिबन्धलक्षणयोर्द्वयोरपि पदयोः “सव्वो लोगो छिहिओ" ति बन्धकैः सर्वो लोकः स्पृष्टो भवतीत्यर्थः । एतासु प्रत्येकमोघवत् सूक्ष्मैकेन्द्रियादीनामपि प्रवेशात् , तेषां च स्वस्थानतोऽपि सर्वलोकव्यापित्वात् प्रस्तुतस्पर्शनाऽपि सर्वलोकः प्राप्यत इति ॥६४८-६४९।।
अथ मार्गणान्तरेष्वाह-- देव-ऽटुमंतसुर-दुपणिदितस-पणमणवयण-विउवेसु। थी-पुम-तिणाण-विभंगो-हि-णयण-तेउ-पम्हासु॥६५०॥ सम्मत्त-खइअ-वेअग-सासण-सण्णीसु अट्ठ छिप्पीअ। (प्रे०) "देवमंतसरे"त्यादि, देवगत्योधमार्गणाभेदे, भवनपत्याद्यष्टमसहस्रारकल्पान्तेष्वेकादशस्वन्यदेवगतिभेदेषु, तथा विशब्दस्य पञ्चेन्द्रियवसयोः प्रत्येकं योजनाद्वयाख्यानतो विशेषप्रतिपत्तेश्च "दुपणिंदितसे"त्यनेन पञ्चेन्द्रियौघ-पर्याप्तपञ्चेन्द्रिय-वसकायोघ-पर्याप्तत्रसकायलक्षणाश्चत्वारोभेदा गृह्यन्ते तेषु,तथा पञ्चमनोयोग-पञ्चवचनयोग-वैक्रियकाययोगेषु,स्त्रीवेद-पुरुषवेद-मत्यादिविज्ञान-विभङ्गज्ञाना-ऽवधिदर्शन-चक्षुर्दर्शन-तेजोलेश्या-पद्मलेश्यासु, सम्यक्त्वौघ--क्षायिक-क्षायोपशमिकसम्यक्त्व-सासादन-संज्ञिमार्गणाभेदेष्वित्येवमेकचत्वारिंशन्मार्गणासु प्रत्येकम् 'अह छिप्पीअ' त्ति प्रकृतैरायुषोऽल्पतरा-ऽवक्तव्यस्थितिबन्धकैः प्रत्येकं त्रसनाडया अष्टौ भागा अस्पृश्यन्त । एतासु प्रत्येकं प्रकृतस्पर्शना सहस्रारान्तदेवानां गमनागमनकृता बोद्धव्या । सा च प्राग द्वितीयाधिकारस्पर्शनाद्वारवृत्तौ भाविताऽपि लेशतः प्रदयते,तद्यथा-सहस्रारकल्पान्तदेवाः पूर्वस्वजनस्नेहेनाधस्तृतीयनरकपथिवीं यावद् गच्छन्ति, ऊर्ध्वमच्युतकल्पं यावत्स्वसामर्थ्यादगच्छन्तोऽपि तेऽच्युतकल्पवासिभिर्देवैः स्वस्थानेषु नियन्ते । उक्तं च पञ्चसंग्रहे'सहसारंतियदेवा नारयने हेण जंति तइयभुवं । निज्जति अच्चुयं जा अच्चुअदेवेण इयरसुरा ।।३१॥' इति ।
एवं च सत्यनन्तमतीतकालमाश्रित्य भिन्न भिन्नमागैर्धाधो गमनागमनं कुर्वद्भिरनन्तैः सहस्रारान्तदेवैरष्टरज्जुप्रमाणमुच्चमेकरज्जुप्रमाणवृत्तविस्तृतं त्रसनाडिगतं क्षेत्रं स्पृष्टं भवति, तदानीं च तेवामायुर्वन्धस्य सम्भवेनानन्तैदेर्वैरायुवन्धस्य कृतत्वादधिकृतस्पर्शनाऽपि तावत्यभिहिता । अत्र तिर्यग्लोकात् तृतीयां पृथिवीं यावद् रज्जुद्वयम् , ऊर्ध्वं चाच्युतकल्पं यावद् रज्जुषट्कमित्याद्यतत् सर्व प्राक् स्पर्शनाद्वारवृत्तावभिहितमिति तत एव द्रष्टव्यम् , न पुनरुच्यते, । एवं मारणसमुद्घातेनाऽऽयुर्वन्धकस्पर्शना नोपपद्यते,तदानीं भवचरमान्तमुहूर्ते भवान्तराभिमुखैरायुर्वन्धस्यानिर्वर्तनादित्याद्यपि तत एवावगन्तव्यं विस्तरार्थिनेति ॥ अथान्यत्राह--
आणतपहुडिसुरेसु चउसुसुकाअ य छ भागा ॥६५१॥ (०) "आणतपहुतिसुरेसु' इत्यादि, आनत--प्राणता-ऽऽरणा-ऽच्युतकल्परूपेप्वानतप्रभृतिषु चतुर्यु देवगतिभेदेषु शुक्ललेश्यामार्गणायां च "छ भाग" त्ति प्राग्वत् प्रकृतैरायुषो द्विविध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org