________________
४९६ ]
बंधविहाणे मूलपयडिठिइबंधो [मार्गणास्वायुषोऽल्पतरा-ऽवक्तव्य० सेसासु बंधगेहिं सव्वो होएज्ज फोसिओ लोगो। भूओगाराईणं तिण्हं सत्तण्ह कम्माणं ॥६४७॥
(प्रे०) “सेसासु' इत्यादि, उक्तशेषासु तिर्यग्गत्योधादिसप्तोत्तरशतमार्गणासु बन्धकैः सर्वो लोकः स्पष्टो भवति । केषां बन्धकैरित्याह-"भूओगाराईण"मित्यादि, आयुर्वर्जानां सप्तानां कर्मणां भयरकाराल्पतरावस्थितस्थितिबन्धलक्षणानां भयस्कारादीनां त्रयाणां प्रत्येकमित्यर्थः । तत्र शेषमार्गणानामधेयान्येवम्-पञ्च तिर्यग्गतिभेदाः, चत्वारो मनुष्यगतिभेदाः, एकानविंशतिरिन्द्रियमार्गणाभेदाः, द्विचत्वारिंशत् पथिव्यादिकायमार्गणाभेदाः, पञ्चमनोयोग-पञ्चवचोयोग-काययोगसामान्यौ-दारिको-दारिकमिश्र-कार्मणकाययोग-स्त्री-पु-नपुंसकवेद-क्रोधादिचतुःकपायमत्यज्ञानाद्यज्ञानत्रया-ऽसंयम-चक्षुदर्शना-ऽचक्षुदर्शन-कृष्ण-नील-कापोतलेश्या-भव्या-ऽभव्य-मिथ्यात्वसंश्य-ऽसंख्या-ऽऽहारक-ऽनाहारकमार्गणाभेदाश्चेति ।
तत्र तिर्यग्गत्याद्यौधिकमार्गणासु स्वस्थानजीवानपेक्ष्यापि सर्वलोकस्पर्शना लभ्यते । कुतः ? तिर्यग्गत्योघादिमार्गणागतानां सूक्ष्मैकेन्द्रियादीनां स्वस्थानतोऽपि सर्वलोकव्याप्तेः । अन्यासु यासु पञ्चेन्द्रियतियंगादिभेदरूपासु नास्ति सूक्ष्मैकेन्द्रियादीनां प्रवेशस्तासु पुनरिणान्तिकसमुद्घातेनाऽधिकृतसर्वलोकस्पर्शना लभ्यते । कुतः ? सूक्ष्मेतरेषामपि तेषां सूक्ष्मैकेन्द्रियादितयोत्पत्तरप्रतिषेधात् । ततः किम् ? ततो मारणसमुद्घातेन स्वोत्पत्तिप्रायोग्यानि सूक्ष्मैकेन्द्रियसत्कोत्पादस्थानानि प्राप्तः पञ्चेन्द्रियतिर्यगादिभिः नानाकालमाश्रित्य सर्वलोकः स्पृष्टो भवतीति प्रकृतेऽपि सर्व ठोफस्पर्शन। लभ्यते मारणसमुद्घाताद्यवस्थायामपि भूयस्कारादिवन्धत्रयप्रवृत्तेरविरोधादिति ॥६४७॥
तदेवं दर्शिताऽऽदेशतोऽपि सप्तानां भूयस्कारादिस्थितिबन्धकानां स्पर्शना । अथावशेषाणामायुषोऽल्पतरा-ऽवक्तव्यस्थितिबन्धकानां स्पर्शनां दिदर्शयिपुराह
तिरिये एगिदिय-पणकाय-णिगोएसु सव्वसुहुमेसु। कायु-रलदुग-णपुम-चउकसाय-दुअणाण-अयतेसु ॥६४८॥ अणयण-असुहतिलेसा-भवियर-मिच्छा-ऽमणेसु आहारे । सव्वो लोगो छिहिओ दोण्हं वि पयाण आउस्स ॥६४९॥
(प्रे०) “तिरिये” इत्यादि, प्राग्वत् तिर्यग्गत्योघे तथैकेन्द्रियौघ-पथिव्यादिपञ्चकायसत्कौघभेद-निगोदौघभेदेपु, सर्वेषु सूक्ष्मैकेन्द्रियाद्यष्टादशसूक्ष्मजीवभेदेषु, काययोगौधौ-दारिकमिश्रकाययोग-नपुसकवेद-चतु:कपाय-मत्यज्ञान-श्रताज्ञाना-संयमेष्वचक्षुर्दर्शना-ऽशुभकृष्णादित्रिलेश्याभव्या-ऽभव्य-मिथ्यात्वा-ऽसंज्ञिष्वाहारिमार्गणायां चेत्येवं षट्चत्वारिंशन्मार्गणासु प्रत्येकमित्यर्थः । एतासु किमित्याह-“सव्वो लोगो” इत्यादि, आयुषः “दोण्ह वि पयाण" ति प्राग्वदल्पतरा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org