________________
मार्गणास्वायुर्वर्जाना भूयस्कारादि० ] भूयस्काराधिकारे स्पर्शनाद्वारम्
[ ४९५ कस्यां कस्यां मार्गणायां कियन्तः कियन्तो भागा इत्याह-"णव सुरईसाणंतदेवतेऊसु" ति नव भागाः 'सुरे'-देवगत्योधमार्गणायामिशानकल्पान्तेषु भवनपत्यादिषु पञ्चष्वन्यदेवगतिभेदेषु तेजोलेश्यामार्गणायां चेत्यर्थः । भवनपत्यादिदेवानामधस्तृतीयपृथिवीं यावद्गमनागमनमपेक्ष्योर्ध्वमीषन्प्रारभारापथिवीं यावन्मारणसमुद्घातेन स्पर्शनाच्च प्रकृतस्पर्शनाऽपि रज्जुद्वयमधोलोकसत्कं रज्जुसप्तकं चोर्ध्वलोकसत्कमितिकृत्वा नव रज्जब उक्ता । तेजोलेश्यायामपि सा भवनपत्यादिदेवानपेक्ष्यैव बोद्धव्येति । "विउवे तेरह" ति वैक्रियकाययोगमार्गणायां सप्तानां भूयस्काराल्पतरावस्थितस्थितिबन्धकैस्त्रसनाडयास्त्रयोदश भागाः स्पृष्टा भवन्तीत्यर्थः । कथम् ? प्रकृतत्रिविधवन्धस्य सर्वावस्थायां सम्भवेन मारणान्तिकसमुद्घातगतान् नैरयिकानपेक्ष्याथोलोकसत्कषज्जुस्पर्शनालाभाद् , ईत्पाग्भारापथिवीं प्राप्तान् मारणसमुद्घातगतभवनपत्यादिदेवानपेक्ष्यो लोकसत्कसप्तरज्जुस्पर्शनालाभाच्च समुदितास्त्रयोदशरज्जुस्पर्शनाऽभिहितेति । “देसे पण" ति देशसंयममार्गणायां प्रकृतत्रिविधवन्धकैः प्रत्येकं त्रसनाड्याः पञ्च चतुर्दशभागाः स्पृष्टा भवन्तीत्यर्थः । कुतः ? तिर्यग्लोकादष्टमकल्पप्राप्तानां मारणान्तिकसमुद्घातगतानां देशविरततिरश्चां स्पर्शनामपेक्ष्याधिकृतस्पर्शनाया लाभादिति । “बारह सासणे णेय" ति सासादनमार्गणायां तु प्रकृतबन्धकैस्त्रसनाडयाः स्पष्टा भागा द्वादश ज्ञेया इत्यर्थः । तत्रोप्रलोकसत्काः सप्तरज्जुस्पर्शनेशानान्तदेवैः समुद्घातकृता, अधोलोकसत्का पञ्चरज्जुस्पर्शना तु मारणसमुद्घातेन तिर्यग्लोकप्राप्तैः षष्ठपृथिवीनारकैः कृता, एते समुदिते सत्यौ द्वादशरज्जुस्पर्शना भवतीति ॥६४५॥
अट्ठ फरिसिआ भागा सेसऽहमअंतसुर-तिणाणेसु।
ओहि-पउम-सम्म-खइअ-खयोवस-मुवसम-मीसेसु॥६४६॥ (प्रे०) "अट्ठफरिसिआ” इत्यादि, प्रकृतसप्तप्रकृतिसत्कभूयस्काराल्पतरावस्थितस्थितीनां प्रत्येकं बन्धकैस्त्रसनाच्या अष्टौ भागाः स्पृष्टा इत्यर्थः । कासु मार्गणास्वष्टौ भागाः स्पष्टा इत्याह"सेसऽहमअंतसुरे” त्यादि, ईशानकल्पान्तदेवगतिभेदेषु प्रस्तुतबन्धकस्पर्शनायाः कथितत्वात् तैर्विना ये शेषा अष्टमकल्पान्ताः सनत्कुमारादिषडदेवगतिमार्गणाभेदास्तेषु, मति-श्रता-ऽवधिरूपेषु त्रिज्ञानभेदेषु तथाऽवधिदर्शन-पद्मलेश्या-सम्यक्त्वोध-क्षायिक-क्षायोपशमिको पशमिकसम्यक्त्व-मिश्रदृष्टिमार्गणास्वित्येवं पोडशमार्गणास्वित्यर्थः । तत्र सनत्कुमारादिसहस्रारकल्पान्तदेवानां गमनागमनकृतस्पर्शनापेक्षयाधिकृतस्पर्शना लभ्यते । तद्यथा-सनत्कुमारादिदेवानामधस्तृतीयां पृथिवीं यावद्गमनाद् द्वे रज्जू स्पर्शनाऽधोलोकसत्का, ऊर्ध्वमच्युतकल्पं यावद्गमनाच्च पडज्जव ऊर्ध्वलोकसत्का स्पर्शना प्राप्यते, तदानीं च भूयस्कारादिप्रस्तुतत्रिविधबन्धानां सम्भवात् सैवाऽष्टभागकथनद्वारेण समुदिताऽभिहिता । एनामेव देवानां गमनागमनकृताष्टरज्जुस्पर्शनामपेक्ष्य मतिज्ञानादिमिश्रदृष्टिमार्गणापर्यन्तासु शेषमार्गणास्वपि प्रस्तुतस्पर्शना भावनीयेति ॥६४६॥
अथ शेषमार्गणासु प्रकृतबन्धकस्पर्शनामाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org