________________
४९४]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुर्वर्जानां भूयस्कारादि० शेषमार्गणासु त्वानतकल्पादिदेवानां गमनागमनकृतस्पर्शनाप्राधान्यात् सा षड्भागप्रमाणाभिहिता । एतेषां तत्तन्मार्गणाभेदगतजीवानां मारणसमुद्घातादिप्रयुक्ता यथोक्तस्पर्शना तु द्वितीयाधिकारस्पर्शनादारवृत्तौ विस्तरतो व्युत्पादिताऽस्माभिः, जिज्ञासुना तत एव ज्ञातव्या । एवं वक्ष्यमाणमार्गणाविषयकस्पर्शनाविस्तरोऽपि तत एव द्रष्टव्यः, नात्र पुनर्वक्ष्यते ग्रन्थविस्तरभयादिति ॥६४२॥
यासु मार्गणासु प्रस्तुतबन्धकानां स्पर्शना लोकासंख्यभागमात्रा ताः संगृह्याहघम्मा-गेविज्जाइ-विउवमीसा-5ऽहारदुग-अवेएसु। मणणाण-संयम-समइअ-छेअ-परिहार-सुहमेसु॥६४३॥ लोगासंखियभागो होइ, बिआइणिरयेसु हुन्ति कमा।
एगं दुवे य तिण्णि य चउरो पण फासिआ भागा ॥६४४॥ (प्रे०) “धम्मागविज्जाइ” इत्यादि, तत्र “धम्मा” त्ति धर्माख्यप्रथमपृथिवीनिरयभेदे, "गेविज्जाइ" ति वेयकादिसर्वार्थसिद्धविमानपर्यन्तेषु चतुर्दशदेवगतिभेदेषु, वैक्रियमिश्रकाययोगा-ऽऽहारककाययोगा--ऽऽहारकमिश्रकाययोगा-ऽपगतवेदमार्गणाभेदेषु,तथा "मणणाणे"त्यादि, मनःपर्यवज्ञान-संयमौघ-सामायिक-छेदोपस्थापन-परिहारविशद्धिक-सूक्ष्मसम्परायसंयममार्गणास्वित्येवं पञ्चविंशतिमार्गणासु प्रत्येकं “लोगासंखियभागो" त्ति लोकस्यासंख्येयभागः “होइ" त्ति, स्पृष्टो भवति, सप्तानां भूयस्कारादिस्थितिबन्धकैरित्यनुवर्तते । एतासु प्रत्येकं स्वस्थानमारणसमुद्घातादिना प्रकारेणाप्युत्कृष्टस्पर्शना लोकासंख्येयभागमात्रैव लभ्यते, तस्याश्च प्रकृतेऽपि युज्यमानत्वात्तथैवोक्तेति ।
अथ मार्गणान्तरेष्वाह-"बिआइणिरयेसु" इत्यादिना, द्वितीयादिशेषपञ्चनरकभेदेषु क्रमादेको द्वौ त्रयश्चत्वारः पञ्च भागाः स्पष्टा भवन्ति । चकारः पादपूत्यै द्रष्टव्यः, प्राग्वत्सप्तानां भूयस्कारादिबन्धकैरित्यस्यानुवृत्तिश्च द्रष्टव्या । तथा सति द्वितीयपृथिवीनिरयभेदे सप्तानां भूयस्कारादिस्थितिबन्धकैस्त्रसनाडीसत्क एकश्चतुर्दशभागः स्पृष्टः, तृतीयपृथिवीनिरयभेदे प्रस्तुतबन्धकैद्वौ चतुर्दशभागौ स्पृष्टी, चतुर्थपृथिवीनिरयभेदे पुनस्तैस्त्रयश्चतुर्दशभागाः स्पृष्टाः, पञ्चमपृथिवीनिरयभेदे तु चत्वारश्चतुर्दशभागाः स्पृष्टाः, षष्ठपथिवीनिरयभेदे पुनः प्रस्तुतबन्धकैः पञ्च चतुर्दशभागाः स्पृष्टा भवन्तीति । इयमेकरज्ज्वादिस्पर्शना प्रत्येकं मारणान्तिकसमुद्घातप्राधान्या बोद्धव्येति ॥६४३-६४४॥ अथान्यत्राह
भागाऽत्थि फासिआ णव सुर-ईसाणंतदेव-तेऊसु। विउवे तेरह, देसे पण, बारह सासणे णेया ॥६४५॥
(प्रे०) "भागाऽत्थि फासिआ” इत्यादि, सप्तप्रकृतीसत्कभूयस्कारादिप्रत्येकस्थितिबन्धानां निर्वतकैः "भागाऽत्थि फासिआ"त्ति त्रसनाडयाश्चतुर्दशांशात्मका भागाः स्पष्टा भवन्ति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org