________________
मार्गणास्वायुर्वजानां भूयस्कारादि० ] भूयस्काराधिकारे स्पर्शनाद्वारम्
[ ४९३
एतेषां लोकासंख्पभागप्रमाणस्पर्शनेत्यर्थः । कुतः ? इति चेद्, उपशमश्रेणिगतानाम्, तादृशानां वा भक्षण देवता भवप्रथम समयवर्तिनां देवानामेव सप्तकर्मसत्काऽवक्तव्य स्थितिबन्धस्वामित्वात् तेषां च मनुष्यलोकैकदेशे वर्तमानानां ततो वाऽनुत्तरसुरतयोत्पद्यमानानां लोकाऽसंख्येयभागादधिकस्पर्शनाया असम्भवात् । असम्भवस्तु सनाडीगत तिर्यक्प्रतरासंख्येयतम भागमात्रवर्तित्वात् मनुष्पलोकस्यानुत्तरविमानानां चेत्यादिना द्वितीयाधिकारस्पर्शनाद्वारप्रेमप्रभादर्शितनियमानुसारेण स्वयमेव विभावनीय इति ।
अथ सप्तानामवक्तव्यस्थितिबन्धकस्वामिनामौधिकस्पर्शनापेक्षया न सम्भवति कासुचिन्मार्गणासु सप्तानामवक्तव्य स्थितिबन्धकानां स्पर्शनाऽधिकतरा, अत लाघवार्थं मार्गणास्थानेष्वतिदिशन्नाह - “जहि हविरे” इत्यादि, “जहि" ति 'यत्र' यासु मार्गणासु "ते" ति तेऽनन्तरोक्ताः सप्तानामवक्तव्यस्थितेर्बन्धका भवन्ति, "तासु ओघव्व फुसणा सिं" ति तासु मार्गणासु "सिं" ति तेषां सप्तानामवक्तव्य स्थितेर्वन्धकानां स्पर्शनौघवत् ज्ञातव्या इति शेषः । तादृश्यो मार्गणास्तु या सप्तानामवक्तव्य स्थितिबन्धः सत्पद्वारे सन्नभिहितस्ता विज्ञेया इति || ६४१ || अथ सप्तप्रकृतीनां भूयस्कारादिवन्धककृतां स्पर्शनां मार्गणास्थानेष्वाहणिरये सत्तमणिरये आणतपहुडिचउदेव सुइलासु । भूगारा गतिण्हं सत्तण्ह छ फासिआ भागा ॥ ६४२॥
,
(प्रे० ) “णिरये सत्तमणिरये" इत्यादि, निरयगत्योघमार्गणायाम्, सप्तम भूमिनिरयमार्गणाभेदे, आनतकल्पप्रभृतिचतुर्देवगतिसत्कभेदेषु, शुक्रलेश्यामार्गणायां चेत्यर्थः । एतासु सप्तमार्गणासु किमित्याह - "भूगाराइगतिन्ह "मित्यादि, बन्धकैरित्यनुवर्तते, तत आयुर्वर्जानां सप्तानां भूयस्कारादिकानां त्रयाणां बन्धकैः पड् भागाः स्पृष्टाः । एते भागाः प्रत्येकं चतुर्दशरज्जूच्चाया एकरज्जुवृत्तविस्तृतायास्त्रसनाड्याचतुर्दशभागप्रमाणा बोद्धव्याः । कस्मात् ? प्रकृतग्रन्थाभिप्रायस्य तथात्यात् । उक्तं च अत्रैव मूलप्रकृतिस्थितिबन्धग्रन्थे द्वितीयाधिकार स्पर्शनाद्वारे'सआण बुच्चिरे इह जे भागा भाजिआअ चउदसहिं । तसनाडीअ लहिज्जउ जं णेया तावइ अप्पमाणा ते ।।' इति एवं च सति प्रकृते सनायाः षट् चतुर्दशभागाः स्पर्शना प्राप्तेति । तद्भावना तु संक्षेपत उच्यते — प्रत्यन्तमुहूर्तं संक्लेशविशुद्धयोः परावर्तमानत्वात् प्रकृतबन्धत्रयं प्रत्यन्तमुहूर्त भाव्यस्ति । किञ्चाधिकृतबन्धत्रयस्य स्वामिनोऽपि तत्तन्मार्गणा गताः सर्वे जीवाः सन्ति, न पुनरवक्तव्यस्थितिबन्धकवत्केचनैव । तथा च सति प्रकृतबन्धत्रयं कुर्वद्भिर्नानाजी वैरनन्तकालमपेक्ष्य स्वप्रायोग्यं सर्वमुत्पादक्षेत्रं सर्वं मारणसमुद्घातक्षेत्रं गमनागमनक्षेत्रं स्वस्थानक्षेत्रं च स्पृष्टं भवति, अतस्तेषां स्पर्शनाऽपि यासु मार्गणात्कृष्टतो यावती भवति तावती सर्वाऽप्यवाप्यते, ताश्च नरकगतिसत्कभेदद्वये मारणान्तिकसमुद्घातकृतस्पर्शना प्राधान्येन षड्ज्जवः प्राप्यत इति तथैवोक्ता, आनतदेवादि -
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International