SearchBrowseAboutContactDonate
Page Preview
Page 565
Loading...
Download File
Download File
Page Text
________________ ४९२ ] विहाणे मूलपडिइिबंधो [ ओघतो भूयस्कारादिबन्धकस्पर्शना० काययोग-स्त्रीवेद-पुरं वेद-मत्यादिज्ञानचतुष्क- विभङ्गज्ञान-संयमौघ-सामायिक-छेदोपस्थापन - परिहारविशुद्धिक- देशसंयम-चक्षु दर्शना ऽवधिदर्शन तेज:- पद्म-शुक्ललेश्या-सम्यक्त्वौघ- क्षायिक क्षायोपशमिक - सासादन - संज्ञिमार्गणाभेदाश्चेति ॥ ६३९ || प्रतिपादितं शेषमार्गणास्त्रप्यायुषो द्विविवस्थितिबन्धकानां क्षेत्रम् । तस्मिंश्च प्रतिपादिते गतं “खेत्त" इत्यनेनोद्दिष्टमष्टमं क्षेत्रद्वारम् ॥ ॥ इति श्रीबन्धविधाने मूळप्रकृतिस्थितिबन्धे तृतीये भूयस्काराधिकारेऽमं क्षेत्रद्वारं समाप्तम् ॥ ॥ अथ नवमं स्पर्शनाद्वारम् || साम्प्रतं “फोसणा” इत्येनोद्दिष्टे नानाजीवाश्रये स्पर्शनाद्वारे मूलप्रकृतिसत्कभूपस्कारादिस्थितिबन्धकानां स्पर्शनां प्ररुरूपयिषुरादौ तावदोघत आह सत्तण्ह बंधगेहिं भूगाराईण तिन्ह आउस्स | दोह वियपयाण भवे सव्वो वि य फोसिओ लोगो ॥ ६४० ॥ (प्रे०) "सत्तण्ह बंधगेहिं" इत्यादि, आयुर्वजनां मूलसप्तप्रकृतीनां "भूगाराईण तिन्ह" ति अवक्तव्यस्थितिबन्धवजनां त्रयाणां भूयस्कारादीनां प्रत्येकं "बन्धगेहिं" ति 'बन्धकैः' निर्वर्तकैः “आउस्स दोण्ह वि य पयाण" ति आयुषोऽल्पतराऽवक्तव्य स्थितिबन्धलक्षणयोर्द्वयोरपि पदयो, बन्धकैरित्यनुवर्तते । तैः किमित्याह - " भवे सव्वो वि ये” त्यादि, स्वस्थानतः सर्वलोकगतैस्तैः प्रत्येकं 'सर्वः' - सम्पूर्णो लोकः स्पृष्टो भवेदित्यर्थः । अत्राधिकृतः स्पर्शनाविशेषस्तु समयमात्र सव्यपेक्षक्षेत्रापेक्षया विलक्षणोऽनन्ताऽतीताद्धासव्यपेक्षो द्वितीयाधिकारक्षेत्रद्वारे 'लोगस्स असंखयमे' इत्यस्या (३२९) गाथाया वृत्तौ व्याख्यातस्वरूपस्तत एव विज्ञेयः, नात्र पुनः प्रपञ्च्यते, ग्रन्थविस्तरभयादिति ॥ ६४०॥ सप्तप्रकृतीनामवक्तव्य स्थितिबन्धकैस्तर्हि कियान् स्पष्ट इत्याहसत्तरह असंखंसो जगस्सऽवत्तव्वबंधगेहि भवे । छिहीओ जहि हविरे ते तासु ओघव्व फुसणा सिं ॥ ६४१ ॥ (प्रे०) "सत्तण्ह" इत्यादि, ओघत आयुर्वजानां सप्तानां मूलप्रकृतीनां "वत्तव्वबंधगेहि" ति पूर्वमकारस्य दर्शनात् स्थितिबन्धस्य प्रस्तुतत्वाच्चावक्तव्यस्थितिबन्धकैः “असंखंसो जगस्स" त्ति 'जगतः ' - लोकस्य 'असंख्यांश:' असंख्यैकभागः “छिहिओ” त्ति स्पृष्टो भवेद्, www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy