SearchBrowseAboutContactDonate
Page Preview
Page 564
Loading...
Download File
Download File
Page Text
________________ [ ४९१ भूयस्कारादिबन्धकक्षेत्रयन्त्र० ] भूयस्काराधिकारे क्षेत्रद्वारम् 'सर्वजगति'-सर्वस्मिँल्लोके, सन्तीति शेषः । कुतः १ एतासु प्रत्येकमार्गणासु स्वस्थानतः सर्वलोकव्यापिनां सूक्ष्मैकेन्द्रियजीवानां प्रवेशादिति ॥६३७-६३८॥ अथ शेषमार्गणासु प्रकृतद्विविधबन्धकक्षेत्रमाहहीणजगे सव्वेसुबायरएगिदिवाउकायेसू सेसासु बंधगा खलु लोगस्स असंखभागम्मि ॥६३९॥ (प्रे०) "हीणजगे" इत्यादि, 'आउस्स बंधगा खलु दोण्हं वि पयाण' इत्येतावत्पूर्वगाथातोऽनुवर्तते, तत आयुषोऽल्पतराऽवक्तव्यस्थितिबन्धयोः प्रत्येकं बन्धकाः "हीणजगे" त्ति 'हीने जगति' देशोने लोके प्राप्यन्त इत्यर्थः । कासु मार्गणास्त्रित्याह-"सव्वेसु" इत्यादि,सर्वेषु बादरैकेन्द्रियभेदेषु सर्वेषु बादरवायुकायभेदेषु चेत्यर्थः । कुतः ? इति चेत्, अधिकृतमार्गणाषट्के सूक्ष्मजीवानामप्रवेशात् प्रविष्टजीवेभ्यो बादरपर्याप्ता-ऽपर्याप्तवायुकायजीवानां स्वस्थानक्षेत्रप्राधान्याद् देशोनलोकक्षेत्रस्यैव प्राप्तेश्च । को भावः ? आयुर्वन्धो जीवानां स्वस्थान एव जायते, न तु मारणसमुद्घातादौ । ततश्चायुषो द्विविधस्थितिबन्धकानामपि क्षेत्रं मार्गणागतजीवानां स्वस्थानक्षेत्रप्राधान्यात्प्राप्यते । तच्च प्रस्तुतमार्गणापट के प्रत्येकं बादरपर्याप्ता-ऽपर्याप्तान्यतरजीवराश्यपेक्षयाऽसंख्येयैकभागलक्षणेनैकदेशेनोनः सर्वलोकः प्राप्यत इतिकृत्वा प्रस्तुतद्विविधबन्धकक्षेत्रमपि देशोनलोकप्रमाणमभिहितमिति । "सेसासु" ति उक्तशेषासु नरकगत्योघाघेकादशाभ्यधिकशतमार्गणासु प्रत्येक "बंधग" ति आयुषोऽल्पतराऽवक्तव्यस्थितिबन्धयोनिवर्तकाः खलु लोकस्यासंख्यैकभागे भवन्तीत्यर्थः । अत्रापि प्रत्येकं स्वस्थानक्षेत्रस्य लोकासंख्येयभागमात्रप्राप्तेः प्रस्तुतक्षेत्रमपि तथैवाभिहितमिति । विशेषभावना द्वितीयाधिकारक्षेत्रद्वारप्रेमप्रभादर्शितनीत्या स्वयमेव कर्तव्या । शेषनरकगत्योघादिमार्गणास्त्विमाः-अष्टौ नरकगतिभेदाः, चत्वारः पञ्चेन्द्रियतिर्यग्भेदाः, चत्वारो मनुष्यगतिभेदाः, त्रिंशद्देवगतिभेदाः, नव विकलेन्द्रियभेदाः,त्रयः पञ्चेन्द्रियभेदाः, बादरपृथिव्यप्तेजःप्रत्येकवनस्पतिकाय-बादरसाधारणवनस्पतिकाय-त्रसकायानां प्रत्येकमोघपर्याप्ता-ऽपर्याप्तभेदात् त्रयस्त्रयो भेदाः, पञ्चमनोयोग-पञ्चवचोयोग-वैक्रिया-ऽऽहारका-ऽऽहारकमिश्र अष्टमूलप्रकृतीनां भूयस्कारादिस्थितिबन्धकानां क्षेत्रप्रदर्शकं यन्त्रकम् कस्याः प्रकृतेः । भूयस्कारादेः कस्य बन्धकानाम् | कुत्र? | कियत्क्षेत्रम् आयुर्वजसप्त भूयस्कारा-ऽल्पतरा-ऽवस्थितानां प्रत्येकम् अोघतः, यत्र सन् | सर्वथाऽनुत्कृष्टस्थितिबन्ध तत्र सर्वमार्गणासु च. कानां क्षेत्रवत् प्रकृतीनाम् अवक्तव्यस्थितिबन्धस्य लोकाऽसंख्यभागः आयुषः अल्पतरा-ऽवक्तव्यस्थितिबन्धयोः प्रत्येकम् | ऽनुत्कृष्टस्थितिबन्धकवत् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy