________________
४९० ]
बंधविहाणे मूलपयडिठिइवंधो [ मर्गणस्वायुषोऽल्पतरादि० (प्रे०)"सेसासु"इत्यादि,उक्तशेषासु नरकगत्योधादिपश्चाधिकशतमार्गणासु प्रत्येकं मार्गणागतनारकादिजीवानामसंख्येवलोकप्रदेशराश्यपेक्षया स्तोकतया न मारणान्तिकसमुद्घातादिनाऽपि सर्वलोकव्याप्तिर्लोकबहुभागव्याप्तिर्वा तेषां, स्वस्थानक्षेत्रमपेक्ष्य त्वेते लोकासंख्येयभागमात्रव्यापिनः, तथा च सप्तानां मूलप्रकृतीनां भूयस्कारादीनां त्रयाणां बन्धका लोकाऽसंख्येयभागे प्राप्यन्ते । अत्रापि प्रत्येकं मार्गणागतानां जीवानां व्याप्यक्षेत्रस्योपपत्तिर्विस्तरतस्तु द्वितीयाधिकारक्षेत्रद्वारप्रेमप्रभातो द्रष्टव्या, तत्तन्मार्गणाविषयकक्षेत्रस्य तत्र विस्तरतो व्युत्पादितत्वात् । ___शेषमार्गणाभिधेयानि स्विमानि-अष्टौ नरकगतिभेदाः,चत्वारः पञ्चेन्द्रियतिर्यग्भेदाः, चत्वारो मनुष्यगतिभेदाः, त्रिंशद्देवगतिभेदाः, नव विकलेन्द्रिय भेदाः, त्रयः पञ्चेन्द्रियभेदाः, पृथिव्यप्तेजस्कायसत्कास्त्रयो बादरपर्याप्तमार्गणाभेदाः, पर्याप्तप्रत्येकवनस्पतिकायभेदः, त्रयस्त्रसकायभेदाः, तथा पञ्चमनोयोग-पञ्चवचोयोग-वैक्रिय-वैक्रियमिश्रा-ऽऽहारका-ऽऽहारकमिश्रकाययोग-स्त्रीवेदपुवेदा-ऽपगतवेद-मत्यादिचतुर्ज्ञान-विभङगज्ञान-संयमोघ-सामायिक-छेदोपस्थापन--परिहारविशुद्धिकसूक्ष्मसम्परायसंयम-देशसंयम-चक्षुर्दर्शना-ऽवधिदर्शन-तेजः-पद्म-शुक्ललेश्या-पम्यक्त्वौघ-क्षायिकक्षायोपशमिको-पशमिकसम्यक्त्व-सम्यग्मिथ्यात्व-सास्वादन-संज्ञिमार्गणाभेदाश्चेति ।।
अथ सप्तानामवक्तव्यस्थितिबन्धकानां क्षेत्रं मार्गणासु नाभिहितमिति तत्रातिदेशेनाह-"जहऽवत्तव्वो तहेवं से" ति सप्तप्रकृतीनामन्यतमस्या अपि प्रकृतेरवक्तव्यस्थितिबन्धः "जह" त्ति 'यत्र'-यास मार्गणास भवति "तह" ति तत्र तास मनुष्यगत्योघादिषटत्रिंशन्मार्गणास "से" त्ति तस्यावक्तव्यस्थितिबन्धस्य निर्वतकाः “एवं' ति यथाऽनन्तरमुक्तास्तथैव लोकासंख्येयभागे, भवन्तीति शेषः ॥६३६॥
अथोक्त शेषस्यायुषोऽल्पतरादिस्थितिबन्धकानां क्षेत्रमाहतिरिये-गिदियगेसुपणकाय-णिगोअ-सव्वसुहुमेस्। कायु-रलदुग-णपुम-चउकसाय-दुअणाण-अयतेसु॥६३७॥ अणयण-असुहतिलेसा-भवियर-मिच्छा-ऽमणेसु आहारे ।
आउस्स बंधगा खलु दोण्हं वि पयाण सब्बजगे ॥६३८॥ (प्रे०) “तिरियेगिंदियगेसु” इत्यादि, प्राग्वत् तिर्यग्गत्योधै-केन्द्रियौघभेदयोः, पृथिव्यादिपञ्चकायसत्कौवभेद-निगोदौष-मूक्ष्मैकेन्द्रियोषादि--सर्वसूक्ष्मभेदेषु, काययोगसामान्यौ-दारिकोदारिकमिश्रकाययोग-नपुसकवेद-क्रोधादिचतुःकषाय-मत्यज्ञान-श्रुताज्ञाना-ऽसंयममार्गणाभेदेषु, तथाऽचक्षुर्दर्शना- शुभत्रिलेश्या-भव्या-ऽभव्य-मिथ्यात्वा-ऽसंज्ञिष्वाहारिमार्गणायां चेत्यर्थः । एतासु तिर्यग्गत्योघादिषट्चत्वारिंशन्मार्गणासु किंमित्याह-"आउस्से” त्यादि, आयुःकर्मणः 'दोण्हं वि पयाण" त्ति अल्पतराऽवक्तव्यस्थितिबन्धलक्षणयोर्द्वयोरपि पदयोः प्रत्येकं बन्धकाः खलु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org