________________
मार्गणास्वायुर्वर्जानां भूयस्कारादि० ] भूयस्काराधिकारे क्षेत्रद्वारम्
[ ४८९ सत्तण्ह बंधगा खलु भूगाराईण तिण्ह सव्वजगे॥६३१॥ (गीतिः) तिरिये सब्वेगिंदिय-निगोद-सेससुहुमेसु वणकाये । पुहवाइचउसु तेसिं वायर-बायरअपज्जेसु॥६३२॥ पत्तेअवणे तस्स अपज्जत्ते कायु-रालियदुगेसु। कम्मण-णपुंसगेसु कसायचउगे अणाणदुगे॥६३३॥ अयता-ऽचक्खूसु तहा अपसत्थतिलेस-भवियेसु।
अभविय-मिच्छत्तेसु असण्णि-आहारगियरेसु॥६३४॥ (उपगोतिः) (प्रे०) “सत्तण्ह बंधगा खलु” इत्यादि, आयुर्वर्जानां सप्तमूलप्रकृतीनां "भूगाराईण तिण्ह" त्ति अवक्तव्यस्थितिबन्धवर्जानां भूयस्कारादीनां त्रयाणां बन्धकाः खलु सर्वजगति'-सम्पूर्णलोके, भवन्तीति शेषः । कासु मार्गणास्वित्याह-"तिरिये" इत्यादि, सावत्रयगाथा अपि सुगमशब्दार्थाः । तासां पिण्डार्थः पुनरयम्-तिर्यग्गत्योध-सर्वेकेन्द्रिय-सर्वनिगोद-शेषद्वादशसूक्ष्मपृथिवीकायादिभेद-वनस्पतिकायौघ--पृथिवीकायादिवायुकायान्तचतुरोधभेद-बादरपृथिव्यादिचतुर्भेदाऽपर्याप्तबादरपथिव्यादिचतुर्भेद-प्रत्येकवनस्पतिकायौघा-ऽपर्याप्त प्रत्येकवनस्पतिकाय-काययोगसामान्यौदारिको दारिकमिश्र-कार्मणकाययोग-नपुंसकवेद-क्रोधादिकपायचतुष्क-मत्यज्ञान-श्रुताज्ञाना-ऽसंयमाऽचक्षुर्दर्शन-कृष्ण-नील-कापोतलेश्या-भव्या-ऽभव्य-मिथ्यात्वा-ऽसंख्या-ऽऽहार्य-ऽनाहारिरूपासु चतुःपष्टिमार्गणासु प्रत्येकमसंख्येयलोकप्रदेशराशिप्रमाणानां सूक्ष्मपथिव्याद्यन्यतमजीवानां प्रवेशात तेषां स्वस्थानतो मारणान्तिकसमुद्घातेन वा सर्वलोकव्यापित्वाच्च क्षेत्रमपि तदनुसारेण सर्वलोकः प्राप्यत इति ॥६३१-६३२-६३३-६३४॥ अथान्यत्राह
भूओगाराईणं तिण्हं बायरसमत्तवाउम्मि ।
सत्ताह बंधगा खलु लोगम्मि हवन्ति देसूणे ॥६३५॥ (प्रे०) "भूओगाराईणं” इत्यादिना, बादरपर्याप्तवायुकायमार्गणायां सप्तप्रकृतीनां भयस्कारादीनां त्रयाणां बन्धकाः खलु देशोने लोके भवन्ति । कुतः ? असंख्यलोकप्रदेशराश्यपेक्षया स्तोकत्वेन तेषां बादरपर्याप्तवायुकायिकानां सर्वलोकाव्याप्तेः, स्वस्थानस्तु तेषां देशोनलोकावस्थायित्वाच्चेति । एतच्च विस्तरतो जिज्ञासुना मूलप्रकृतिस्थितिबन्धद्वितीयाधिकारक्षेत्रद्वारवृत्तिविलोकनीया, तत्र तस्य सुप्रपश्चितत्वादिति ॥६३५।। शेषमार्गणास्वाह
सेसासु सत्तण्हं भूगाराईण बंधगा तिण्हं । लोगाऽसंखियभागे जहऽवत्तब्बो तहेवं से ॥६३६॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org