SearchBrowseAboutContactDonate
Page Preview
Page 561
Loading...
Download File
Download File
Page Text
________________ ४८८ ] बंधविहाणे मूलपयडिठिइबंधो [ ओघतो भूयस्कारादिबन्धकक्षेत्र० तदेवमभिहितमोघादेशोभयथा सर्वासां मूलप्रकृतीनां भूयस्कारादिस्थितिबन्धकानामुत्कृष्टपदगतं परिमाणम् । तथा च सति गतं सप्तमं परिमाणद्वारम् । ॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे तृतीये भूयस्काराधिकारे सप्तमं परिमाणद्वारं समाप्तम् ।। ॥ अथाऽष्टमं क्षेत्रद्वारम् ॥ अथ क्रमप्राप्ते क्षेत्रद्वारे मूलप्रकृतिसत्कभूयस्कारदिस्थितिवन्धकानां क्षेत्रं प्रतिपिपादयिपुरादौ तावदायुर्वर्जसप्तप्रकृतिसत्कभूयस्कारादिस्थितिबन्धकानां तदोघतः प्रतिपादयन्नाह सत्तण्ह बंधगा खलु भूओगाराइतिण्ह सबजगे। हुन्ति अवत्तव्वस्स उ लोगस्स असंखिये भागे॥६३०॥ (प्रे०) “सत्तण्ह बंधगा” इत्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां "भूओगाराइतिण्ह" ति अवत्त व्यस्थितिबन्धवर्जानां शेषाणां भूयस्कारादित्रिविधस्थितिबन्धानां प्रत्येकं बन्धकाः खलु "सव्वजगे" ति 'सर्वजगति' सर्वलोके, भवन्तीति क्रियाऽन्वयः । सुगम चैतत् , सूक्ष्मैकेन्द्रियादिभिरपि प्रस्तुतभयस्कारादिस्थितिबन्धत्रयस्य निर्वर्तनाचेषां च सर्वलोकव्यापित्वादिति । "अव्वत्तव्वस्स उ" त्ति तासामेव सप्तानामवक्तव्यस्थितिवन्धस्य निर्वतकास्तु लोकस्य 'असंख्येयभागे'-असंख्येयतम एकभागे, भवन्तीति पूर्वेणान्धयः । एतदपि सुगममेव, उपशमश्रेणितोऽद्धाक्षयेण भवक्षयेण वा निपततामेव तत्स्वामित्वादिति ॥६३०॥ अथाऽऽयुषोऽल्पतरादिस्थितिबन्धकानां क्षेत्रमोघतः प्राह आउस्स सव्वलोए दोण्हं वि पयाण बंधगा णेया। (प्रे०) “आउस्से"त्यादि, ओघत आयुःकर्मणः "दोण्हं वि पयाण” त्ति अल्पतरा ऽवक्तव्यस्थितिबन्धलक्षणयोर्द्वयोः पदयोः बन्धकाः'-निर्वर्तका: “सव्वलोए"त्ति सर्वस्मिन्नपि लोके ज्ञातव्याः । कथम् ? स्वस्थानतोऽपि समग्रलोकव्यापिनां सूक्ष्मैकेन्द्रियाणामपि तत्स्वामित्वादिति ।। उक्तमोघतः । अथाऽऽदेशतः भूट स्कारादिस्थितिबन्धकानां क्षेत्रं दिदर्शयिषुरादौ सप्तप्रकतीरधिकृत्याह-- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy