SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ ४८६ ] बंधविहाणे मूलपयडिठिइबंधो मार्गणास्वायुःकर्मणः पज्जमणुस-मणुसीसुसव्वत्था-ऽऽहारदुग-अवेएसु। मणणाण-संयम-समइअ-छेअ-परिहार-सुहुमेसु॥६२४॥ सत्तण्हं संखेज्जा तिपयाण असंखिया उ सेसासु। जासु पुण अवत्तव्यो तासुखलु तस्स संखेज्जा॥६२५॥ (प्रे०) "पज्जमणुसे"त्यादि, प्राग्वत् पर्याप्तमनुष्य-मानुषी-सर्वार्थसिद्धविमानदेववगतिभेदाऽऽहारकातन्मिश्रकाययोगा-ऽपगतवेद--मनःपर्यवज्ञान--संयमोघ--सामायिक--छेदोपस्थापन-परिहारविशुद्धिक-सूक्ष्मसम्परायसंयममार्गणासु प्रत्येकं सप्तानां मूलप्रकृतीनां "संखेज्जा तिपयाणं" ति प्राग्वद् भूयस्काराल्पतरावस्थितस्थितिवन्धलक्षणानां त्रयाणां पदानां प्रत्येकं संख्येयाः, बन्धका इति गम्यते । “असंविया उ सेसासु" त्ति अनन्तरोक्तस्य 'सत्तण्ह' 'तिपयाणं' चेत्यस्य पदवयम्स्यात्राप्यनुवर्तनादुक्तशेपासु नरकगत्योषादिविंशत्युत्तरशतमार्गणासु सप्तानां प्रकृतीनां भूयस्कारादीनां त्रिपदानां प्रत्येकमसंख्येयाः,बन्धका इति प्राग्वत् । कुतः ? तत्तन्मार्गणागतैः प्रत्येकजीवैभू यस्कारादिस्थितिबन्धत्रयस्य प्रत्यन्तमुहूर्त करणात, मार्गणागतजीवराशिवदसंख्येवादिकमेव प्रकृतबन्धकपरिमाणमप्याप्यते, तच्च यथोक्तमेवेति । अथावक्तव्यस्थितिवन्धस्य बन्धकपरिमागमादेशतो दर्शयति-"जासु खलु" इत्यादिना, एतदपि प्राग्वद्भावनीयमिति ।६२४-६२५।। उक्तमादेशतोऽपि प्रकृतबन्धकपरिमाणं सप्तप्रकृतीरधिकृत्य । अथायुष्कमधिकृत्याहतिरिये सवेगिंदिय-णिगोअ-वणकायु-रालियदुगेसु। णपुम-चउकसायेसुदुअणाणा-ऽयत-अचक्खूमु॥६२६॥ अपसत्थतिलेसासु भवियर-मिच्छा-ऽमणेसु आहारे । आउस्स हुन्ति दोण्ह वि पयाण खलु बन्धगाऽणंता ॥६२७॥ (प्रे०) “तिरिये” इत्यादि, तियग्गत्योघे, सर्वशब्दस्यैकेन्द्रियनिगोइयोः प्रत्येक योजनात् सवैकेन्द्रियभेद-सर्वनिगोदभेद-वनस्पतिकायोघ-काययोगसामान्यौ-दारिकौ-दारिकमिश्रकाययोगेषु, नपुसकवेद-क्रोधादिचतुःकपायमार्गणासु, मत्यज्ञान-श्रुताज्ञाना.ऽसंयमा-ऽचक्षुर्दर्शनमार्गणासु तथा "अपसत्थे” त्यादि, कृष्णायप्रशस्तत्रिलेश्यामागंणासु, भव्या-ऽभव्य-मिथ्यात्वा-ऽसंज्ञिमार्गणास्थाहारिमार्गणायां चेत्येवं पत्रिंशन्मार्गणास प्रत्येकमायुषः “दोण्ह वि पयाण" त्ति अल्पतराऽवक्तव्यस्थितिबन्धलक्षणयोईयोरपि पदयोबन्धका खल्वनन्ता भवन्ति, सुगमं गतार्थं चेति ॥६२७॥ अथ शेषमार्गणास्वार्याद्वयेनाहपज्जमणुस-मणुसीसुआहारदुगा-ऽऽणताइदेवेसु। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy