________________
॥ अथ सप्तमं परिमाणद्वारम् ॥ अथ क्रमप्राप्ते "परिमाण" इत्यनेन प्रागुद्दिष्टे परिमाणद्वार आदौ तावदोघतो मूलप्रकृतिसत्कभूयस्कारादिस्थितिबन्धकानामुत्कृष्टपदगतं परिमाणं दर्शयन्नाह
सत्तण्ह हुन्ति तिण्हं भूगाराईण बंधगाऽणंता। संखेज्जाऽवत्तबस्साऽणंताऽऽउस्स दुपयाणं ॥६२१॥
(प्रे०) “सत्तण्ह हुन्ति तिण्ह"मित्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां भूयस्काराऽल्पतरा-ऽवस्थितस्थितिबन्धात्मकानां त्रयाणां भयस्कारादीनां प्रत्येकं बन्धकाः “णंता" ति विश्लेषप्राप्तस्याऽकारस्य दर्शनाद् अनन्ता भवन्ति । “संखेज्जाऽवत्तव्वस्स" ति तासामेव सप्तानामवक्तव्यस्थितिबन्धस्य संख्येयाः, बन्धका भवन्तीत्यनुवर्तते । सुगमं चैतत्, यतः सप्तानामवक्तव्यस्थितिबन्धस्वामिनः केचन देवा उपशमश्रेणिगता मनुष्या वा भवन्ति, शेषभूयस्कारादिसर्ववन्धकारत्वेकेन्द्रिया अपीति । "ऽणताउस्स दुपयाणं" ति शेषस्याऽऽयुःकर्मणोऽल्पतरावक्तव्यस्थितिबन्धलक्षणयोर्द्वयोः पदयोः प्रत्येकमनन्ताः, बन्धका इत्यत्राप्यनुवर्तते । एतदपि सुगमम् , सर्वेषामायुर्वन्धकानां नियमेन द्विविधबन्धस्य भावात् साधारणवनस्पतिकायजीवेषु प्रतिसमयमनन्तानामायुर्वन्धकानां लाभाच्चेति ॥६२१॥
अथ मार्गणास्थानेषु प्रकृतबन्धकपरिमाणं प्रचिकटयिषुरादौ तावत्सप्तप्रकृतीरधिकृत्याह
एगिदिणिगोएसुसव्वेसु तह तिरियम्मि वणकाये। काय-उरालदुगेसु कम्म-णपुम-चउकसायेसु ॥६२२॥ दुअणाणा-ऽयत-अणयण-असुहतिलेस-भवियियर-मिच्छेसु।
अमणा-ऽऽहारियरेसु सत्तण्होघव तिपयाणं ॥६२३॥ (प्रे०) “एगिदिणिगोएसु" इत्यादि,प्राग्वत् सर्वेस्वेकेन्द्रियभेदेषु,सर्वेषु निगोदवनस्पतिभेदेषु, तथा तिर्यग्गत्योघे, वनस्पतिकायौधे, काययोगसामान्यौ--दारिको--दारिकमिश्रकाययोगेषु कार्मणकाययोग--नपुंसकवेद-क्रोधादिचतुःकषायेषु । अन्या मार्गणाः संगृह्णन्नाह-“दुअणाणायते"त्यादि, मत्यज्ञान--श्रुताज्ञाना-ऽसंयमा-ऽचक्षुर्दर्शना-ऽशुभकृष्णादित्रिलेश्या-भव्या-ऽभव्यमिथ्यात्वा-ऽसंख्या-ऽऽहार्य-ऽनाहारिरूपास्वष्टत्रिंशन्मार्गणासु प्रत्येक "सत्तण्होघव्व तिपयाणं" ति आयुर्वर्जानां सप्तानां मूलप्रकृतीनां भूयस्काराल्पतरावस्थितस्थितिबन्धलक्षणानां त्रयाणां पदानां प्रत्येकं बन्धका ओघवदनन्ता इत्यर्थः । हेतुरप्यत्रौघवदेव द्रष्टव्य इति ॥६२२-६२३॥
अथ प्रस्तुतसप्तप्रकृतिविषयमुक्तशेषमार्याद्वयेनाह
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org