________________
मार्गणावायुः कर्मणः ]
भूयस्काराधिकारे भागद्वारम्
[ ४८३
जीवा भवन्ति, संख्येयाः, असंख्येया, अनन्ता वा यात्रन्तः स्थितिबन्धकजीवाः सन्तीत्यर्थः । " तत्तिअभागो णायव्वा बंधगा तस्स" त्ति 'तावद्भागो' तावत्संख्येयतमाद्येकभागस्तस्य ज्ञानावरणादेरवक्तव्य स्थितिबन्धस्य 'बन्धकाः' - निर्वर्त का ज्ञातव्याः ।
अयम्भावः - यासु मार्गणासु सप्तानामवक्तव्य स्थितेर्वन्वकाः सन्ति तासु ते कस्मिन्नप्येकसमय उत्कृष्टतोऽपि संख्येया एव, न पुनरधिकाः, प्रपतदुपशमकादीनामेव सप्तानामवक्तव्यस्थितिबन्धसम्भवात् । यद्यप्येत्रं तथाऽपि तदन्येषामपि तत्तन्मनुष्पगत्योघादिमार्गगागतानां भूस्काराद्यन्यतमस्थितिबन्धस्य नियमेन प्रवृत्तस्तेऽपि बन्धकास्तु सन्त्येव, ते च कासुचिन्मार्गणासु संख्येयाः, अन्यासु कासुचिच्च संख्येयाः, अपरासु कासुचिच्चनन्ताः सन्ति, तेभ्योऽवक्तव्यवन्धकसंख्यया भागे हृते यासु संख्येयाः जीवास्तासु संख्येयैकभागः प्रस्तुतावक्तव्यबन्धकाः प्राप्यन्ते, शेषास्तु संख्येयबहुभागा भूयस्कारादिस्थितिबन्धकतया प्राप्यन्ते, एवं यास्वसंख्येया जीवास्तास्वेतेऽवक्तव्यबन्धकजीवा असंख्य मैकभागप्रमाणा आप्यन्ते, भूयस्कारादिवन्धकतया त्वसंख्येयबहुभागप्रमाणाः सम्पद्यन्ते । इत्थमेवानन्तजीव राशिविषयेऽपि बोद्धव्यम् । तथा च सति मनुष्यगत्यौघ- पञ्चेन्द्रियौध-पर्याप्तपञ्चेन्द्रिय-त्रसकायौध-पर्याप्तत्रसकाय-पञ्चमनोयोग-पञ्चवचोयोग-मतिज्ञान - श्रुतज्ञानाऽवधिज्ञान चक्षुर्दर्शनाsवधिदर्शन- शुक्ललेश्या सम्यक्त्वघ-१ - क्षायिकसम्यक्त्वौ- पशमिकसम्यक्त्व-संज्ञिरूपास्वसंख्येयजीवराशिकमार्गेणासु प्रत्येकं सप्तानामप्यवक्तव्य स्थितिबन्धका असंख्येयैकभागगता भवन्ति । पर्याप्तमनुष्य-मानुषी-गतवेद-मनःपर्यवज्ञान- संयमौघमार्गणास्तु प्रत्येकं संख्येयजीवराशिका इतिकृत्वा तासु प्रत्येकं सप्तप्रकृतीसत्कावक्तव्यस्थितिबन्धकाः संख्येयैकभागप्रमाणा बोद्धव्याः । तदन्यासु पुनः काययोगसामान्यौ-दारिककाययोगाऽचक्षुर्दर्शन- भव्या-ऽऽहारिमार्गणासु लोभमार्गणायां च जीवानामानन्त्यादवक्तव्यबन्धका अध्यनन्ततमैकभागप्रमाणा अवसातव्याः केवलं लोभमार्गणायां मोहनीयकर्मण एवावकव्यस्थितित्रन्यस्य सम्भवात् तस्यैव विज्ञेयाः, न पुनः शेषषण्णामपीति ||६१७|| तदेवमुक्ताः सप्तानामादेशतोऽपि भूयस्कारादिस्थितिबन्धकभागाः । अथ शेषस्याऽऽयुपस्ताaissदेशतो व्याचिकीषु राह—
•
पज्जमणुस - मणुसीसु आहारदुगा-ऽऽणताइदेवेसु । मणणाण-संयमेसु समइअ -छेअ - परिहारेसु ॥ ६१८॥ सुइल- खइए भागा संखेज्जाऽऽउस बंधगा णेया । अप्पयरस्स उ भागोऽवत्तव्वस्त खलु संखयमो ॥६१९ ॥
(प्रे०) “पज्जमणुसमणुसीसु" इत्यादि, प्राग्वत् पर्याप्तमनुष्य मानुष्या - हारका-SSहारकमिश्र काययोगा-ssनतकल्पादिसर्वार्थसिद्धविमानान्तदेवगतिमार्गणाभेदेषु मनः पर्यवज्ञान-संयमौध--सामायिक--छेदोपस्थापन - परिहारविशुद्धिकमार्गणासु शुक्रलेश्या - क्षायिकसम्यक्त्वमार्गणयोश्चे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org