________________
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्त्रायुर्वर्ज सप्तकर्मणाम् पज्जमणुस - मणुसीसु सव्वत्थाऽऽहारदुग-अवेएस | मणणाण-संयम-समइअ-छेअ - परिहार - सुहमेसु ॥६१४॥ सतह संखभागो भूगाराईण बंधगा दोन्हं ।
संखेजा खल भागा अवडिअस्स य मुणेयव्वा ||६१५॥
1
(प्रे० ) " पज्जमणुसे” इत्यादि, पर्याप्तमनुष्य-मानुपीमार्गणयोः " सव्वत्थ" त्ति देवगतिसत्के सर्वार्थसिद्धविमानभेदे, तथाऽऽहारका -ऽऽहारकमिश्रकाययोगात्मकयाहारकद्विकेऽपगतवेदमार्गणायां चेत्यर्थः । तथा "मणणाणे" त्यादि, मनः पर्यवज्ञान - संयमौघ- सामायिक-छेदोपस्थापन- परिहारविशुद्धिक-सूक्ष्मसम्परायसंयम मार्गणास्वित्येतासु द्वादशमार्गणासु प्रत्येकमित्यर्थः । एतासु किमित्याह-“सत्तण्ह” इत्यादि, आयुर्वर्जानां सप्तप्रकृतीनां "भूगाराईण" त्ति भूयस्काराऽल्पतरलक्षणयोभूयस्कारादयोः “"दोपह" त्ति द्वयोः स्थितिबन्धयोः प्रत्येकं बन्धकाः "संखभागो” ति मार्गणागतबन्धकजीवानां संख्येयत मैकभागप्रमाणा इत्यर्थः । "संखेज्जा खलु” इत्यादि, तत्र खलशब्दो वाक्यालङ्कारे, चकारस्तु पादपूयै ततः सप्तप्रकृतीनामवस्थितस्थितिबन्धस्य निर्वर्तकाः खल संख्या बहुभागा ज्ञातव्या इत्यर्थः । एतासु प्रत्येकं बन्धकजीवा एव संख्येया इति कृत्वा संख्येयैकभागबहुभागा अभिहिताः । भावनास्त्वोघवद् द्रष्टव्या ।।६१४-६१५।।
अथ शेषमार्गणासु सप्तानां भूयस्कारादिस्थितिबन्धत्रयस्य बन्धकभागान् दर्शयतिसासु असंखयमो भागो सत्तण्ह बंधगा या । भूगारप्पयराणं असंखियावद्विअस्संसा || ६१६॥
"
(प्रे० ) "सेसासु" इत्यादि उक्तशेषास्वष्टपञ्चाशदुत्तरशतमार्गणासु पुनः प्रत्येकं संख्यातीतजीवानां सद्भावात्तेषां प्रत्येकं भूयस्कारादिस्थितिबन्धस्वामित्वाच्च "सत्तण्ह" ति सप्तप्रकृतीनां "भूगारप्पयराणं" ति भूयस्काराऽल्पतरस्थितिबन्धयोः प्रत्येकं 'बन्धकाः' - निर्वर्तका: “असंखयमो भागो" त्ति असंख्यतम एको भागो ज्ञेयाः । "असंखियाऽवट्ठिअस्संसा" ति सप्तानामवस्थितस्थितिबन्धस्य निर्वर्तका असंख्यबहुभागप्रमाणा इत्यर्थः । गतार्थः ||६१६||
अथ यासु ज्ञानावरणादिसप्तान्यतभानामवक्तव्यस्थितिबन्धो भवति तासु तस्य बन्धका शेषबन्धकानां कतितमे भागे वर्तन्त इत्येतद् दिदर्शयिपुलघवार्थं व्याप्यवाह
४८२ ]
जासु खल अवत्तव्वो तासु जावइअ संखिया जीवा । हुन् तत्तियभागो णायव्वा बंधगा तस्स ॥६१७॥
(प्रे०) "जासु खलु” इत्यादि, यासु खलु सप्तप्रकृतीनामवक्तव्यस्थितिबन्धसद्भावः प्रागभिहितस्तासु मनुष्यगत्योघादिमार्गणासु " जावइअसंखिया जीवा हुन्ति” ति यावत्संख्येया
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org