________________
॥ अथ षष्ठं भागद्वारम् ॥ अथ "भागो” इत्यनेनोद्दिष्टे षष्ठे भागद्वारे मूलप्रकृतीनां भूयस्कारादिस्थितिबन्धकभागान् प्रकटयन्नाह
भूगारप्पयराणं सत्तण्हं बंधगा असंखंसों। भागा अवट्ठिअस्स उ असंखियाऽण्णस्सऽणतंसो॥६१२॥ (प्रे०) "भूगारप्पयराण" मित्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां भूयस्काराल्पतरयोः स्थितिवन्धयोः प्रत्येकं 'बन्धकाः'-निर्वर्तकाः “असंखंसो” ति असंख्यांशः, भूयस्कारादिसर्ववन्धकानामसंख्येयतमैकभागवर्तिन इत्यर्थः । एवमुत्तरत्रापि स्थितिबन्धकजीवानपेक्ष्यासंख्यैकभागबहुभागादयस्तत्तद्वन्धका ज्ञेयाः, न पुनः सर्वजीवापेक्षयेति । “भागा अवडिअस्स उ असंखिय" त्ति प्रकृतत्वात् सप्तप्रकृतीनां प्रत्येकमवस्थितस्थितिबन्धस्य निर्वर्तकास्त्वसंख्येयाः “भाग" त्ति बहुभागाः । अत्र बहुभागा इत्येतद् बहुवचनान्तनिर्देशाद् विज्ञेयम् । यत्रैकवचनान्तो निर्देशस्तत्रैको भागो बोद्धव्यो यत्र तु बहुवचनान्तो निर्देशस्तत्र बहुभागा इति भावः । “पणस्स" त्ति पूर्वमकारस्य दर्शनाद् 'अन्यस्य'-दर्शितान्यस्य, सप्तानामवक्तव्यस्थितिबन्धस्येति भावः । तस्य किमित्याह"णतंसो" त्ति अत्रापि पूर्वमकारस्य दर्शनादनन्तांशः-अनन्ततमैकभागः, बन्धका इति गम्यते । तत्रैकजीवमाश्रित्य शेषवन्धत्रयस्योत्कृष्टप्रवर्तनकालापेक्षयाऽवस्थितस्थितिबन्धस्योत्कृष्टप्रवर्तनकालस्याऽसंख्येयगुणत्वात्तद्वन्धकानां शेषवन्धकापेक्षयाऽसंख्येयगुणः सञ्चयः प्राप्यत इति तेऽसंख्येयबहुभागाः कथिताः । तत एव शेषा असंख्येयैकभागप्रमाणाः प्राप्यन्त इति तु सुगमम् । तत्रापि सप्तानामवक्तव्यस्थितिबन्धकास्तु भूयरकारादिवन्धकवदेकेन्द्रियादयो न भवन्ति, किन्तु केचन मनुष्या देवाश्चैवेति ते पुनरनन्तैकभागप्रमाणा अभिहिता इति ।।६१२॥
उक्ताः सप्तप्रकृतीनां भृयस्कारादिस्थितिवन्धकभागाः । अथायुपो द्विविधवन्धकभागानाह
आउस्स असंखेजा भागाऽप्पयरस्स बंधगा हुन्ति । भागोऽवत्तव्वस्स उ जाणेयवो असंखयमो ॥६१३॥
(प्रे०) "आउस्स” इत्यादि, आयुःकर्मणः "प्पयरस्स बन्धगा हुन्ति” त्ति अल्पतरस्थितिबन्धस्य निर्वर्तका भवन्ति । कियन्त इत्याह-"असंखेज्जा भाग' त्ति असंख्येया बहुभागा इत्यर्थः । कुतः ? इति चेद् , एकजीवाश्रयावक्तव्यबन्धकालापेक्षयाऽल्पतरबन्धकालस्योत्कृष्टपदेऽसंख्येयगुणत्वात् तदीयबन्धकपरिमाणस्य संख्यातीतत्वाच्च तद्वन्धकसञ्चयोऽप्यवक्तव्यबन्धकसञ्चयापेक्षयाऽसंख्यगुणः प्राप्यते, तथा च भागचिन्तायामपि यथोक्ता एव भवन्तीति ॥६१३॥
उक्ता ओघतः । अथादेशतो दिदर्शयिषुरादौ सप्तप्रकृतिविषयान् प्राह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org