________________
-पृथक् पृथगुत्पादने करणान्तरम् ] भूयस्काराधिकारे भङ्गविचयद्वारम्
[ ४७९ तासां स्थापितसंख्यानामधो भजनीयपदानां संख्या विपर्ययेण'-व्यत्यासेन स्थाप्या इत्यर्थः । तथा च सति प्रकृते [१३३६] पूर्वस्थापितैकसंख्याया अधश्चतुःसंख्या, द्विसंख्याया अधस्त्रिसंख्या, त्रिसंख्याया अधो द्विसंख्या, चतुःसंख्याया अध एकसंख्येति । ततः किं कर्तव्यमित्याह-"सुवरिल्लाए" इत्यादि, “पढमा हेडिला खलु विभत्तव्व" त्ति प्रथमाऽधस्तनी संख्या खलु विभक्तव्या । कयेत्याह-"सुवरिल्लाए"त्ति 'स्वोपरितनया'-स्वोपरितनवर्तिन्या संख्यया,स्वमस्तकस्थेनाङ्कनेत्यर्थः । तथा च सति प्रकृते [२) ४ (४ लब्धिः ] प्रथमाया अधस्तन्याश्चतुःसंख्यायास्तदुपरितन्यैकसंख्यया भागे हृते लब्धं चत्वार इति भागफलम् ,इदं हि लब्धिरप्युच्यते ।
___ अथ व्यायङ्कषु यत्करणीयं तदाह-"बोआ पुव्वत्ताए” इत्यादि, द्वितीया "हेहिमा" त्ति अधस्तनी संख्या “पुव्वत्ताए लडीए" त्ति पूर्वाऽऽप्तया लब्धया,-पूर्वप्राप्तेन भागफलेनेत्यर्थः । "गुणि" ति गुणयित्वा, गुणनीयेति भावः, तथा च सति प्रकृते [३४४=१२] द्वादशसंख्या प्राप्ता । अतः पश्चात् किं कर्तव्यमित्याह-"पच्छा भइअव्वुवरिमगाए" ततः पश्चात् सा प्राप्तसंख्या स्वोपरितनवर्तिन्या संख्यया भक्तव्येत्यर्थः । तथा च कृते प्रकृते [२) १३(६ लब्धिः ] षट्संख्या प्राप्ता । “एमेव जहुत्तरं कज्ज' तत्र “एमेव" ति यथाऽनन्तरमुक्तं तथैव, पूर्वप्राप्तलन्थ्योत्तरवर्त्यवस्तनसंख्याया गुणनम् , तत उपरितनसंख्यया प्राप्तगुणनफलस्य भागहरणं 'यथोत्तरं कार्य' ययोतरस्थापिताङ्केषु कार्यमित्यर्थः । ततश्च प्रकृते तृतीयस्थाने [६४२=१२, ३) १३(४लब्धिः ] चतुःसंख्या भागफलतया प्राप्ता, पुनरपि तथैव कृते [४४१=४, ४)(१ लब्धिः] चतुर्थस्थाने लब्धावेकसंख्या प्राप्तेति ।
या एता लब्धयः प्राप्तास्ता एवैकादिसंयोगिनो भङ्गा बोद्धव्या इति ज्ञापयन्नाह-"जाओ पढामाईओ” इत्यादि, या अनन्तरोक्तप्रक्रियया प्रथमादयो 'लब्धयः'-चतुष्कादिनि प्रथमादिभागफलानित्यर्थः । प्राप्तास्ता खलु' निश्चयेन क्रमेणे'कादीनां -एक-द्वि-व्यादीनां संयोगानां विकल्पाः' -भङ्गा ज्ञातव्याः । तथा च सति प्रकृते चत्वार एकसंयोगिनो भङ्गाः, पड़ द्विसंयोगिनो भङ्गाः, चत्वारस्त्रिसंयोगिनो भङ्गाः, एकश्चतुःसंयोगी भङ्गश्च प्राप्तः ।
किमेतावन्त एव प्रकृते भङगा बोद्धव्याः ? न, यत एते बन्धकसामान्यापेक्षया सन्ति, प्रकृते भजनीयपदेषु कालभेदेनैकानेकबन्धकानां सम्भवात् तदपेक्षया द्रष्टव्याः । नन्वेकानेकबन्धकापेक्षया तर्हि कियन्तो भङ्गा इत्याह-"एगाई संयोगी" त्यादि, अनन्तरप्राप्ता एकादिसंयोगिनो भङ्गाः 'क्रमशः' यथाक्रम, संस्थाप्येति शेषः । “गुणिआ ते एगाणेगजीवाणं" इति, गुणिताः सन्तस्ते 'एकानेकजीवानाम् ' -एकानेकबन्धकजीवानां, भङ्गका भवन्तीति शेषः ।
नन्वेत एकादिसंयोगिनो भङगाः क्रमेण संस्थाप्य केन गुणिताः सन्त एकानेकवन्धकानां भङ्गा भवन्तीत्याह-"दुगेण ताउ कमा दुगुणदुगुणेण" ति प्रथमा द्विकेन, ततः क्रमात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org