________________
बंधवाणे मूलपडिटिइबंधो
[ एकसं योग्यादिभङ्गानाम्प्रत्येकवनस्पतिकायौ-दारिकमिश्रकाययोग-कार्मण काययोग नपुंसकवेद-क्रोधादिचतुः कषाय-मत्यज्ञानश्रुताज्ञान- संयम - कृष्ण - नील-कापोतलेश्या-भव्य- मिथ्यात्वाऽसंज्ञ्य ऽनाहारिरूपास्त्रकोनषष्टिमार्गणासु सप्तप्रकृतीनामवक्तव्य स्थितिबन्ध एव नास्ति, शेषभूयस्कारादिस्थितिबन्धकानां तु निरन्तरं प्राप्तेस्त्रीणि पदानि ध्रुवाणीत्येवमेक एव भङ्गः प्राप्यते, केवलं लोभमार्गणायां मोहनीयकर्मणोऽवक्तव्यबन्धस्य निर्वर्तका भजनीया इतिकृत्वा लोभमार्गणायां मोहनीयकर्मणः प्रकृतभङ्गास्त्रयो द्रष्टव्याः, शेषषण्णां तु यथोक्त एक एवेति ।
अथायुषो द्विविधबन्धकास्त्वनुपदमुक्त तिर्यग्गत्योघाद्येकोनषष्टिमार्गणाभ्यः कार्मणकाययोगाSनाहारिमार्गणाद्वयं विहाय शेषासु सप्तपञ्चाशन्मार्गणासु काययोगसामान्यौ-दारिककाययोगाऽचक्षुदर्शन भव्याऽऽहारिमार्गणासु च प्रत्येकं ध्रुवं लभ्यन्त इतिकृत्वा तास्वोघवदेको भङ्गो द्रष्टव्यः । शेषमार्गणास्वायुर्वन्धकानां प्राप्तिर वा उक्ता अतः शेषमार्गणासु द्वेऽपि पदे भजनीये, तथा च सत्युक्तकरणानुसारेणाष्टौ भङ्गाः प्राप्यन्त इति । अत्र सर्वत्रापि भङ्गोच्चारणं तु स्वयमेव कर्तव्यमिति ||६०७|| अथैकसंयोग्यादिभङ्गान् पृथग्जिज्ञासतां कृते करणान्तरमाहभयणीअपया कमा संखा ठप्पा विपज्जयेणाहो । सुवरिल्लाए पढमा हेट्टिल्ला खलु विभत्तव्वा ॥ ६०८ ॥ बीआ पुव्वत्ताए लडीए हेट्टिमा गुणिअ पच्छा | भइ अवरिमगाए एमेव जहुत्तरं कज्जं ॥ ६०९ ॥ जाओ पढमाईओ पत्ता लगीउ ताउ णायव्वा । कमसो गाईणं संयोगाणं खलु विगप्पा ॥ ६१०॥
४७८ ]
गाई संयोगी भंगा कमसो दुगेण ताउ कमा । दुगुणद्गुणगुणि ते एगाणेगजीवाणं ॥ ६११ ॥
(प्रे० ) " भयणीअपयाण कमा" इत्यादि, "भयणीअपयाणकमा" त्ति भजनीयपदानां क्रमात् "संख" त्ति "संख्या: " - संख्यादर्शक चिह्नानि, एक-द्वि-व्यायङ्का इति यावत् । ताः "ठप्प " त्ति 'स्थाप्याः ' न्यसनीयाः, एक-द्वयादिभजनीयपदेषु सत्स्वेतावतामेकादीनामेकोत्तरानामङ्कानां न्यासः कर्तव्य इति भावः । एवमेवोत्तरत्राऽपि विज्ञेयम् । अत्र यस्यां सर्वाधिकानि भजatrपदानि तस्यामोपशमिकसम्यक्त्वमार्गगायां सममेव भाव्यते, तत्रोपशमिकसम्यक्त्वमार्गणायां भजनीयपदानि चत्वारि, अतस्तत्संख्याका एकोतरा एकायङ्काः क्रमेण स्थाप्याः, [१२३४ ] एककः, द्विकः, त्रिकः, चतुष्क इति । ततः किं कर्तव्यमित्याह - "विपज्जयेणाहो" त्ति' भयणी अपयाण संखा ठप्पा' इत्यनुवर्तते, अतो भजनीयपदानां संख्याः क्रमेण स्थापयित्वाऽनन्तरम् "अहो ” ति
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only