________________
करणयोजनया भङ्गोत्पत्तिः] द्वितीयाधिकारे भङ्गविचयद्वारम्
[ ৪৬৩ ऽवस्थितस्थितिबन्धकाः, अनेकेऽल्पतरस्थितिबन्धका इति पञ्चमभङ्गः । एते चत्वारो द्विसंयोगिनो भङ्गा जाताः। त्रिसंयोगिनोऽपि चत्वारोभङ्गाभवन्ति । तद्यथा- 'स्यादनेकेऽवस्थितस्थितिबन्धकाः, एको भूयस्कारस्थितिबन्धकः, एकोऽल्पतरस्थितिबन्धकश्चेति षष्ठभङ्गः । स्यादनेकेऽवस्थितस्थितिबन्धकाः, एको भूयस्कारस्थितबन्धकोऽनेकेऽल्पतरस्थितिबन्धका इति सप्तमो भङ्गः । स्यादनकेऽवस्थितस्थितिबन्धकाः, अनेके भूयस्कारस्थितिबन्धकाः, एकोऽल्पतरस्थितिबन्धक इत्यष्टमभङ्गः ।
स्यादनेकेऽवस्थितस्थितिबन्धकाः,अनेके भूयस्कारस्थितिबन्धकाः,अनेकेऽल्पतरस्थितिबन्धकाश्चेति नवमभङ्ग इति । इत्थमेव शेषनिरयगतिभेदेषु, चतुषु तिर्यक्पञ्चेन्द्रियभेदेषु, देवगतिसत्कत्रिंशद्भेदेषु, विकलेन्द्रियसत्कनवभेदेषु, अपर्याप्तपञ्चेन्द्रियमार्गणाभेदे,बादरपृथिव्यादिसत्केषु चतुर्यु पर्याप्तभेदेषु, पर्याप्त प्रत्येकवनस्पतिकायमार्गणाभेदे, अपर्याप्तत्रसकायभेदे तथा वैक्रियकाययोग-स्त्रीवेद-पुरुषवेद--विभङ्गज्ञान--सामायिकसंयम--देशसंयम-तेजोलेश्या-पद्मलेश्या-क्षायोपशमिकसम्यक्त्वेवित्येवं षट्पष्टिमार्गणास्वपि प्रत्येकमायुवर्जसप्तप्रकृतीनामेकैकस्या नव नव भङ्गका द्रष्टव्याः ।
मनुष्यौघ-पर्याप्तमनुष्य-मानुषी--पञ्चेन्द्रियोघ-पर्याप्तपञ्चेन्द्रिय-बसौघ-पर्याप्तत्रसकाय-पञ्चमनोयोग-पञ्चवचोयोग-मत्यादिचतुर्ज्ञान--संयमोघ-चक्षुर्दर्शना-ऽवधिदर्शन-शुक्ललेश्या-सम्यक्त्वौघक्षायिकसम्यक्त्व-संज्ञिमार्गणारूपास्वष्टाविंशतिमार्गणासु तु प्रत्येकं सप्तप्रकृतीनां भूयस्कारा-ऽल्पतराऽवक्तव्यस्थितिबन्धकानां भजनीयतोक्ताऽतस्त्रीणि पदान्यध्र वाणि, अवस्थितबन्धकास्तु ध्र वा उक्ताः, तथा च षड्विंशतिरध्रु वभङ्गा प्राप्ताः, एको भङ्गस्तु ध्रुवः प्राप्तः । इत्येवमेतासु प्रत्येकं सप्तविंशतिर्भङगा बोद्धव्याः । भगोच्चारणं तु पूर्ववत्स्वयमेव कर्तव्यमिति ।
अपर्याप्तमनुष्य-वैक्रियमिश्रकाययोगा-ऽऽहारककाययोगा-ऽऽहारकमिश्रकाययोग-छेदोपस्थापन-रिहारविशुद्धिक-सूक्ष्मसम्परायसंयम-सम्यग्मिथ्यात्व-सासादनरूपासु नवमार्गणासु पुनः प्रत्येकं सप्तप्रकृतीनां भयस्कारा-ऽल्पतरा-ऽवस्थितस्थितिबन्धका अध्र वा दर्शिताः, अतस्त्रीणि पदान्यध्रवाणि, नास्त्येकमपि ध्रवपदम् । कुतः ? नानाजीवानाश्रित्यापि प्रकृतमार्गणानां सान्तरत्वात् । इत्थं ह्यध्र वपदत्रयीनिष्पन्नाः षड्विंशतिर्भङ्गा लभ्यन्त इति ।
काययोगौ-दारिककाययोगा-ऽचक्षुर्दर्शन-भव्या-ऽऽहारकरूपासु पञ्चमार्गणासु प्रत्येकं सप्तप्रकृतीनामवक्तव्यबन्धका अध्र वाः, शेषभूयस्कारादित्रयाणां ध्र वाश्च दर्शिताः; इत्थं ह्यध्रुवपदस्यैकत्वाद् द्वौ भङ्गो, एकच ध्रुवभङ्ग इत्येवमोघवत् त्रयो भङ्गका भवन्ति ।
___औपशमिकसम्यक्त्वाऽ-पगतवेदमार्गणयोश्चतुर्णामपि पदानामध्रुवत्वात् ध्रुवपदस्य चाभावादशीतिर्भङ्गाः प्राप्यन्ते; वारत्रयं पदवृद्धावशीतिभङ्गोत्पत्तिस्तु प्राक्करणगाथाव्याख्याने दर्शिता ।
तिर्यग्गत्योध-सर्वैकेन्द्रिय-सर्वनिगोद-शेषसूक्ष्मपृथिव्यादिभेद-वनस्पतिकायौघ-पृथिव्यप्तेजोवायुकायौषभेद-चादरपृथिव्यादिचतुर्भेदा-ऽपर्याप्तवादरपृथिव्यादिचतुर्भेद-प्रत्येकवनस्पतिकायौघा-ऽपर्याप्त
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org