________________
४७६ ]
बंधविहाणे मूलपयडिठिइबंधो [करणयोजनया भङ्गोत्पत्तिः व्याप्तेरेव दर्शितत्वात् । तथा च सति यत्र द्वे पदे भजनीये तत्र पदवृद्धिरितिकृत्वा तौ पूर्वपदप्राप्तौ द्वौ भगावेव त्रिगुणौ द्वियुतौ कर्तव्यो, ततो(२४३+२=८)ऽष्टौ भङ्गा प्राप्यन्ते । यत्र पुनरपि पदवृद्धिरर्थात् त्रीणि पदानि भजनीयानि तत्र "ते" इत्यनेन पूर्वपदप्राप्तावष्टौ भङ्गास्त्रिगुणा द्वियुताः क्रियन्ते, ततश्च (८४३+२=२६) षडविंशतिभङ्गाः सम्पद्यन्ते, एवमुत्तरत्रापि पदवद्धया द्रष्टव्यम् । तद्यथा-यत्र चत्वारि पदानि भजनीयानि तत्र पुनरपि पदवृद्धिरितिकृत्वा पूर्वप्राप्ताः षड्विंशतिर्भङ्गास्त्रिगुणा द्वियुताः क्रियन्ते । तथा च सति (२६४३+२=८०) अशीतिर्भङ्गकाः प्राप्यन्ते, इत्थमेव प्रतिपदवद्धौ भङ्गवद्धिः स्वयमेव द्रष्टव्या । एते द्वि-अष्ट-पड्विंशत्यादिभङ्गा अध्र वपदनिष्पन्ना एव, प्रकृतकरणस्याघ्र वपदनिष्पन्नभङ्गानयनार्थमभिहितत्वात् । अतो यत्रैकद्वयादीनि ध्रुवपदानि तत्र तु तत्सत्क एको भङ्गोऽधिकः प्राप्यत इति द्वयादिभङ्गेष्वसौ प्रक्षेप्य इति । __अस्य प्रकृते योजना त्वेवम्-ओघत आयुर्वर्जानां सप्तप्रकृतीनां प्रत्येकमवक्तव्यस्थितिबन्धका अध्र वा भणिताः, शेषभूयस्कारादित्रयाणां तु ध्र वा उक्ता, तथा च सत्यध्र वपदमेकमितिकृत्वा द्वौ भङ्गो प्राप्तौ, ध्रुवपदत्रयनिष्पन्नस्त्वेको भङ्गः प्राप्त इत्येवमोघतो ज्ञानावरणादीनां प्रत्येक त्रयो भङ्गा जाताः । तद्यथा-ज्ञानावरणादिसप्तान्यतमस्य स्यादनेके भयस्कारस्थितिबन्धकाः,अनेकेऽल्पतरस्थितिबन्धकाः, अनेकेऽवस्थितस्थितिबन्धका इति प्रथमः । अवक्तव्यबन्धकानामभावकाल एवायं प्राप्यते, । द्वितीयभङगस्त स्यादनेके भयस्कारस्थितिबन्धकाः, अनेकेऽल्पतरस्थितिबन्धकाः, अनेकेऽवस्थितस्थितिवन्धकाःएकोऽवक्तव्यस्थितिबन्धक इति । तृतीयभङ्गः पुनस्स्यादनेके भूयस्कारस्थितिबन्धकाः, अनेकेऽल्पतरस्थितिबन्धकाः, अनेकेऽवस्थितस्थितिबन्धकाः, अनेकेऽवक्तव्यस्थितिबन्धका इति । आयुर्विषये त्वोधचिन्तायामेक एव भङ्गः, पदद्वयस्यापि ध्र वत्वात् । नानापदानां ध्र वत्वेऽप्येकभङ्गप्राप्तिस्त सुगमा । तदुच्चारणा त्वेवं भवति-अनेकेऽल्पतरस्थितिबन्धका अनेकेऽवक्तव्यस्थितिबन्धका इति । ___अथ मार्गणास्थानेषु प्रकृतकरणे योजिते प्राप्तभङ्गविचयः प्रदर्यते-नरकगत्योधमार्गणायामायुर्वर्जसप्तप्रकृतीनां भूयस्काराल्पतरस्थितिबन्धकानां प्रत्येकं भजनीयतोक्ता, अबस्थितस्थितिबन्धकानां तु ध्रुवत्वमभिहितमित्येवं द्वे पदेऽध्रुवे,एकं ध्रुवम् ,ततश्चाष्टौ भङ्गा अध्रुवाः, अध्रुवपदनिष्पन्ना इत्यर्थः । एकोभङ्गो ध्रुवश्च प्राप्यते, एको भङ्गो ध्रुवपदनिष्पन्नः प्राप्यत इत्यर्थः । एवमुत्तरत्राऽपि विज्ञेयम् । तदुच्चारणं त्वेवम्-ज्ञानावरणादीनां सप्तानामन्यतमस्याः स्यादनेकेऽवस्थितस्थितिबन्धका इति प्रथमो भङ्ग एकसंयोगी। संयोगस्य प्राधान्यादेकत्वेऽप्येकसंयोगीत्युच्यत इति बोद्धव्यम् । स्यादनेकेऽवस्थितस्थितिबन्धकाः, एको भूयस्कारस्थितिबन्धक इति द्वितीयो भङ्गः। 'स्यादनेकेऽवस्थितस्थितिबन्धकाः, अनेके भूयस्कारस्थितिबन्धका इति तृतीयो भङ्गः। "स्यादनेकेऽवस्थितस्थितिबन्धकाः,एकोऽल्पतरस्थितिबन्धक इति चतुर्थो भङ्गः । "स्यादनेके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org