________________
अध्र वपदैर्भङ्गो पादने करण० ] भूयस्काराधिकारे भङ्गविचयद्वारम्
[ ४७५ पत्तेअवणे तस्स य अलमत्ते कायुरालियदुगेसु। णपुम-चउकसायेसुदुअणाणा-ऽयत-अचक्खूसु॥६०५॥ असुहतिलेस-भवियियर-मिच्छाऽसण्णीसु य तह आहारे । दुपयाण बंधगाऽऽउस्स धुवा सेसासु भयणीआ॥६०६॥ (प्रे०) “तिरिये” इत्यादि, अक्षरार्थस्तु सुगमः सप्तकर्मभूयस्कारादिस्थितिबन्धकानां ध्रुवत्वादिप्रतिपादकगाथाव्याख्यानेनोक्तप्रायश्च । भावार्थस्त्वयम्-सार्धगाथाद्वये"तिरिये” इत्यादिना नामत उपातासु तिर्यग्गत्योघादिद्विषष्टिमार्गणासु प्रत्येकमायुपः सत्पदद्वयस्य बन्धका जघन्यतोऽप्यसंख्यलोकाकाशप्रदेशराशितुल्याः सन्ति, तथा च सति बन्धकबाहुल्यायागुतनीत्याऽल्पतरावक्तव्यस्थितिवन्धयोः प्रत्येकं निर्वते कानामन्तरं कदाचिदपि न लभ्यत इति तेषां ध्रौव्यं प्रतिपादितम् , शेवासु पुनर्यास्वायुर्वन्धो भवति तासु नरकगत्योघाद्यकोत्तरशतमार्गणासु तूक्तबन्धकबाहुल्यस्थाभावादेवाऽऽयुषोऽल्पतराऽवक्तव्यस्थितिवन्धयोः प्रत्येक निर्वर्तकानां कदाचिदन्तरस्यापि लाभात्तेषां भजनीयता दर्शितेति ॥६०४-६०६॥
अथाष्टानामपि प्रकृतीनां भूयस्कारादेवन्धकानां भङ्गविचयोपयोगिनं ध्रु वत्वादिकं प्रतिपाद्य भङ्गविचयमानयनाय करणं व्याचिकीषु ध्रुवपदानां नानात्वेऽपि तत्सत्क एक एव भङ्गो भवतीति तत्र वक्तव्यताऽभावात्सुगमत्वाद्वा ध्रवपदान्युपेक्ष्याध्र वपदप्रयुक्तभङ्गोत्पादने करणगाथामाह--
भयणीअपयस्स दुवे भंगेगाणेगबंधगाहिन्तो। ते चिअ तिगुणा दुजुआ पयपयवुट्ठीअ कायव्वा ॥६०७॥ (प्रे०) "भयणीअपयस्स" इत्यादि, भजनीयपदस्येत्यत्रैकवचनस्योपादानादेकस्य भजनीयपदस्य “दुवे भंग" ति द्वौ भङ्गो । अव भङगद्वैविध्ये हेतुमाह-"गाणेगबंधगाहिन्तो" त्ति विश्लेशप्राप्तस्यैकारस्य दर्शनादेकाऽनेकबन्धकेभ्यः, कदाचिदेकवन्धकलाभात् , कदाचिदनेकबन्धकलाभादित्यर्थः । अयम्भावः-भजनीयपदे कादाचित्कबन्धकाभाव इव कदाचिदेको बन्धकः कदाचिच्चानेके बन्धका इत्येवं द्वौ भङ्गो प्राप्येते, अत ओघत आदेशतो मार्गणास्थानेषु वा यत्र कुत्रचिदेकमध्र वपदं तत्र तत्सत्को द्वौ भङ्गो धर्तव्यो । यत्रैकस्मादधिकानि द्वयादीन्यध्र वपदानि तत्र पुनः किं कर्तव्यमित्याह-"ते चिअ तिगुणे" त्यादि, तत्र “पयपयवुढी" ति ततः 'पदपदवद्धौ'-प्रतिभजनीयपदवद्धावित्यर्थः। "ते चिअ" ति तावनन्तरपदप्राप्तौ द्वौ भङ्गो "तिगुणा दुजुआ" ति बहुवचनं प्राकृतत्वादतस्त्रिगुणौ द्वियुतौ, कर्तव्याविति परेणान्वयः । अत्र "ते" इत्यनेनान्तरोक्तौ द्वौ भङ्गौ परामश्येते, तथापि तौ न द्विभङ्गरूपेण परामृश्यौ किन्तु पूर्वपदप्राप्तभङ्गरूपतया परामृश्यौ । कुतः ? “पयपयवढीअ” इत्यनेन प्रतिपदवृद्धौ तथैव करणीयतयाऽत्र
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org