________________
४७४ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुषोऽल्पतरा-ऽवक्तव्य० तस्यां स्वकपदानि, तानि चाऽपर्याप्तमनुष्य-काययोगौघ-वैक्रियमिश्रा-ऽऽहारका-ऽऽहारकमिश्रकाययोग-छेदोपस्थापन--परिहारविशुद्धिक-सूक्ष्मसम्परायसंयम-सम्यग्मिथ्यात्व--सासादनरूपनवमार्गगासु ज्ञानावरणादीनां सप्तप्रकृतीनां प्रत्येकं भूयस्काराऽल्पतराऽवस्थितस्थितिबन्धलक्षणानि त्रीणि, औपशमिकसम्यक्त्वा-ऽपगतवेदमार्गणयोस्तु प्रत्येकं सप्तानां भूयस्काराल्पतरावस्थितावक्तव्यस्थितिबन्धलक्षणानि चत्वारि । तेषां स्वकपदानां "भयणोआ बन्धगा” ति 'बन्धकाः'-निर्वतका भजनीयाः । कुत एतासु सतपदानि भाज्यानि ? इति चेद् , नानाजीवानाश्रित्यैता सां मार्गणानामेव सान्तरत्वादिति । "सेसासु” ति उक्तशेषास पञ्चनवतिमार्गणास प्रत्येक सप्त प्रकृतीनां "णियमा अवट्ठिअस्स हि" त्ति अवस्थितस्यैव बन्धका नियमात , सन्तीति शेषः । “सेससगपयाण” त्ति प्राग्वत् , नवरमवस्थितस्थितिबन्धस्य निवर्तकानां कथितत्वातेन वर्मानां शेषाणां स्वकपदानामित्यर्थः । तेषां किमित्याह-"भयणोआ"त्ति सुगमम् ।
तत्र शेषमार्गणा इमाः पञ्चनवतिः-अष्टौ नरकगतिभेदाः, चत्वारः पञ्चेन्द्रियतिर्यग्भेदाः, त्रिंशदेवगतिभेदाः, नव विकलेन्द्रियभेदाः, अपर्याप्तपञ्चेन्द्रियः, पर्याप्तवादरपृथिव्यप्तेजोवायुकायाः, पर्याप्तप्रत्येकवनस्पतिकायः, अपर्याप्तत्रसकायः, वैक्रियकाययोगः, पुरुषवेद-स्त्रीवेदविभङगज्ञान-सामयिकसंयम-देशसंयम-तेजोलेश्या-पद्मलेश्या-क्षायोपशमिकसम्यक्त्वमार्गणा इति सप्तषष्टिस्तथाऽपर्याप्तमनुष्यभेदवर्जास्त्रयो मनुष्यगतिभेदाः, पञ्चेन्द्रियौघ--पर्याप्तपञ्चेन्द्रिय--प्रसोधपर्याप्तत्रसकायभेदाः,पञ्चमनोयोग-पञ्चवचोयोग-मत्यादिज्ञानचतुष्क-संयमाघ-चक्षुर्दर्शनाऽवधिदर्शनशुक्ललेश्या-सम्यक्त्वौघ-क्षायिकसम्यक्त्व-संज्ञिरूपा अष्टाविंशतिश्चेति ।
तत्र प्रथमोदितासु नरकगत्योपादिसप्तपष्टिमार्गणासु प्रत्येकं सप्तानां भूयस्काराल्पतरद्विविधस्थितिवन्धयोनिर्वतका एव भजनीयाः । कुतः ? तास्ववक्तव्यबन्धस्याभावात् , शेषपदेष्ववस्थितस्थितिस्थितिवन्धकपदस्य तु ध्र वत्वेन द्वे एव शेपस्वपदेऽध्र व इतिकृत्वा । तदनन्तरोदितासु मनुष्यगत्योघाघष्टाविंशतिमार्गणासु पुनः सप्तप्रकृतीनां भूयस्काराल्पतरावक्तव्यत्रिविधस्थितिबन्धानां निवर्तका भजनीया इति । एतासु पञ्चनवतिमार्गणासु भूयस्कारादेवन्धकानां सजनीयाभजनीयत्वं तु 'तिरिये' इत्यादि(५९८......)गाथाचतुष्टयवत्तौ तत्तयस्कारादेवन्धकपरिमाणस्यासंख्येयलोकप्रदेशराश्यपेक्षयाऽतिस्तोकवादिना प्रकारेण साधितमेवेति ॥६०२-६०३॥
अथ गाथात्रयेण मार्गणास्थानेष्वेव शेषस्याऽऽयुपोऽल्पतरावक्तव्यस्थितिबन्धयोनिवर्तकानां ध्रुवाऽध्र वत्वं दर्शयन्नाह
तिरिये सव्वेगिंदियणिगोअ-सेससुहमेसु वणकाये । पुहवाइचउसु तेसिं बायर-बायरअपज्जेसु॥६०४॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org