________________
तत्तत्पदानां ध्रुवत्वाद्योपपत्ति० ] भूयस्काराधिकारे भङ्गविचयद्वारम्
[ ४७३
1
त्योघादिचतुःषष्टिमार्गणास्थानेषु चायुर्वर्जससमूलप्रकृतीनां भूयस्कारादिविविध स्थितिबन्धकपदानां त्वमभिहितम् । यत्र पुनर्निरयगत्योघादिमार्गणास्थानेषु नास्ति जीवपरिमाणं तावदसंख्येयलोकादिलक्षणम्, न वा भवति जीवानामेव नारकादितया सर्वथाऽभावस्तत्र त्ववस्थितस्थितिबन्धकलक्षण पदं भवति, भूयस्काराऽल्पतरस्थितिवन्वास्त्वध्रुवं प्राप्यन्ते । कस्मात् ? प्रत्यन्तमुहूर्त भाविनामपि भूयस्कारा- ऽल्पतरा ऽवस्थितस्थितिबन्धानां मध्ये भूयस्काराऽल्पतरस्थितिबन्धयोरुत्कृष्टस्याऽप्येकजीवाश्रयकालस्यैकन्यादिसंख्येयसमयमात्रत्वेन तदीयैकजीवाश्रयान्तरस्योत्कृटतोऽसंख्येयसमयप्रमाणत्वेन च प्रत्येकं जीवानां जीवितासंख्येयबहु भागेष्वस्थितस्थितिबन्धकतया परिणतेः, भूयस्कारा- ऽल्पतरस्थितिबन्धकतया तु जीवितासंख्येयैकभागमात्रकालं परिणतेथ । जीवितासंख्येयबहुभागकालेष्ववस्थित स्थितिबन्धस्य प्रवर्तनात् जीवितासंख्यैकभागकाल एव भूयस्कारादिस्थितिबन्धानां प्रवर्तनाच्चेति भाव: । अत एवानन्तरमपर्याप्तमनुष्यादिसान्तरमार्गणासु सर्वपदानामध्रुवत्वं प्रतिपाद्याऽपि निरयगत्योघादिमार्गणासु त्ववस्थितस्थितिबन्धकानां ध्रुवत्वमेव वक्ष्यते । सप्तानामवक्तव्य स्थितिबन्धस्वामिनस्तूपशमश्रेण समारुह्य निपतन्तः केचनैव जीवाः, ते च नानाजीवानाश्रित्योपशमश्रेणेरेव सान्तरत्वात्कदाचित्प्राप्यन्ते, कदाचित्तु नेत्योघतो मार्गणास्थानेषु वा सर्वत्र यत्र कुत्रचित्सप्तानामवक्तव्य स्थितिबन्धपदं सदभिहितं तत्र तदध्रुवमेव लभ्यते | आयुषो ऽल्पतरा ऽवक्तव्यद्विविवस्थितिबन्ध सत्पदयोस्तु प्रस्तुतधुवान्धवत्वमोघतो मार्गणास्थानेषु वा सर्वत्र सर्वथैवायुषः प्रकृतिबन्धकानां ध्रुवान् वत्ववदेव लभ्यते । कथम् ? कादाचित्कमप्यायुःप्रकृतिवन्धं कुर्वतां जीवानां तदीयाऽल्पतरा ऽवस्थितस्थितिबन्धयोर्नियमतो भावात्, बन्धक परिमाणस्याऽसंख्येयलोक-तदधिक-तद्धीनत्वादिरूपेण तुल्यत्वाच्च । अत एवौघत आयुषो द्विविधपदे ध्रुवेभिहिते, तिर्यग्गत्योगादिमार्गणास्थानेष्वपि ते ध्रुवेऽभिधास्यते, अन्यत्र त्वध्रुव इति ।।५९८-६०१।। अथ शेषमार्गणासु प्रकृतमायुर्वर्जानां भूयस्कारादितत्तद्वन्धकानां वत्वादिकमाहअसमत्तणरा-ऽऽहारगजुगल-विउवमीसगेसु गयवेए । छेए परिहार- सुहम-उवसम-सासाण-मीसेसु ॥ ६०२॥ सत्तण्ह सगपयाणं भयणी बंधगाऽथ सासु । णियमा अवअिस्स हि सेससगपयाण भयणी | ६०३ ॥
(प्रे०) “असमत्तणरे”त्यादि, अयर्पाप्तमनुष्यमार्गणायां, तथाऽऽहारकाऽऽहारकमिश्रकाययोगयोयु गले, वैक्रियमिश्रकाययोगमार्गणायां, गतवेद मार्गणायां, छेदोपस्थापनसंयमे, परिहारविशुद्धिकसंयम-सूक्ष्मसम्परायसंयमौ-पशमिकसम्यक्त्व-सास्वादन मिश्र दृष्टिमार्गणासु चेत्यर्थः । एतासु प्रत्येकं किमित्याह -“सत्तण्ह" इत्यादि आयुर्वजनां सप्तानां प्रकृतीनां भूयस्कारादिस्थितिबन्धलक्षणानां 'स्वकपदानां’-स्वकीयपदानाम्, भूयस्कारादीनि यावन्ति पदानि यस्यां मार्गणायां सद्भूतानि तावन्ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org