________________
४७२ ]
बंधविहाणे मूलपयडिठिइवंधो [ मर्गणास्वायुर्वर्जानां भूयस्कारादि० (प्रे०) “तिरिये” इत्यादि, तिर्यग्गत्योघे, सर्वशब्दस्यैकेन्द्रियनिगोदयोः प्रत्येकं योजनात् सर्वैकेन्द्रियभेदाः, सर्वनिगोदभेदाः, सूक्ष्मपृथिवीकायादिद्वादशसूक्ष्मजीवभेदास्तेषु, वनस्पतिकायोघे तथा “पुहवाइचउसु" ति पृथिवीकायादिवायुकायान्तेषु चतुर्यु पृथिव्याद्योघभेदेषु, "तेसिं" ति तेषां पृथिव्यादिचतुर्णा "बायरबायरअपज्जेसु” ति वादरभेदेष्वपर्याप्तवादरभेदेषु च, बादरपृथिव्यप्तेजोवायुकायेष्वपर्याप्तवादरपृथिव्यप्तेजोवायुकायेषु चेत्यर्थः । प्रत्येकवनस्पतिकायस्यौघे, तस्य च प्रत्येकवनस्पतिकायस्याऽपर्याप्तभेदे, “कायुरालियदुगेसु” ति काययोगसामान्यौदारिकोदारिकमिश्रकाययोगेषु चेत्यर्थः । तथा कार्मणकाययोग-नपंसकवेदयोः, क्रोधादिकषायचतुष्के, मत्यज्ञान-श्रुताज्ञानरूपेऽज्ञानद्रिके, असंयमा-ऽचक्षुर्दर्शनयोस्तथाऽप्रशस्तकृष्णादित्रिलेखा-भव्यमार्गणाभेदेषु, अभव्य-मिथ्यात्वमार्गणयोः, असंज्ञिमार्गणायां, आहारकमार्गणायां तथेतरपदादनाहारकमार्गणायां चेत्येवं चतुःषष्टिमार्गणासु प्रत्येकमायुर्वर्जानां सप्तप्रकृतीनां "भूगाराईण तिण्ह" त्ति 'भूयस्कारादीनां'-भूयस्काराल्पतरावस्थितस्थितिबन्धलक्षणानां त्रयाणां "बंधगा” ति बन्धकाःनिर्वतकाः, खलु पादपूत्यें, "णियमाऽत्थि" त्ति प्राग्वत् नियमात्सन्ति-सर्वदा प्राप्यन्ते, एतानि त्रीण्यपि ध्रुवपदानीति भावः ।
__एतास तिर्यग्गत्योधादिचतुःषष्टिमार्गणासु सर्वासु न सप्तानामवक्तव्यस्थितिबन्धसद्भावः, किन्तु कासुचित्काययोगसामान्यादिमार्गणास्वेव, अतस्तास्ववक्तव्यवन्धकपदं ध्रुवमध्रुवं वेत्येतदर्शयन्नाह-"एआस" इत्यादि, एतासु तिर्यग्गन्योघादिचतुःषष्टिमार्गणासु सप्तानां प्रकृतीनामवक्तव्यस्य बन्धकास्तु "अवत्तव्यो जहि” त्ति 'यत्र'-यासु मार्गणास्ववक्तव्यस्थितिवन्धः समभिहितः “तहि" त्ति तासु काययोगौ-दारिककाययोगा-ऽचक्षुर्दर्शन-भव्या-ऽऽहारिमार्गणासु सप्तप्रकृतीनां लोभमार्गणायां मोहनीयकर्मणश्च "से" त्ति तस्यावक्तव्यस्थितिबन्धस्य "अत्थि भयणोआ” त्ति बन्धका भजनीया सन्ति, अवक्तव्यबन्धकानापदमध्र वमित्यर्थः ।।
तत्तत्पदानां ध्रुवत्वाद्युपपत्तिमार्गास्त्विमे-विहायाऽवक्तव्यस्थितिबन्धसत्पदं सप्तानां भूयस्कारादित्रिविधस्थितिवन्धसत्पदान्योधत आदेशतश्च सर्वजीवानां बन्धप्रायोग्यानि, अन्यच्च कुत्रचिन्मार्गणास्वसंख्यलोकप्रदेशराशिपरिमाणास्तदधिका अनन्ता वा जीवाः सन्ति, यथौघतस्तिर्यग्गत्योघादिमार्गणास्थानेषु च । कुत्रचित्तु ततः स्तोकाः स्तोकतराः स्तोकतमाः संख्येया एवोत्कृष्टतोऽपि भवन्ति । तेऽपि कासुच्चिन्नरकगत्योपादिमार्गणास्थानेषु निरन्तरं प्राप्यन्ते, कासुचिदपर्याप्तमनुष्यादिसान्तरमार्गणासु तु कदाचित्प्राप्यन्ते, कदाचित्त नाऽपि प्राप्यन्ते । इत्थं च यत्र कदाचिन्नाऽपि प्राप्यन्ते तस्यास्तु मार्गणाया एवाऽध्रुवत्वात्तत्र मार्गणायां सर्वविधभूयस्कारादीस्थितिबन्धकपदान्यध्रुवाण्येव भवन्तीति तु सुगमः । यत्र तु जीवपरिमाणमेवाऽसंख्यलोकप्रदेशराशितुल्यं तदधिकं वा तत्र तु भूयस्कारादीनि त्रिविधान्यपि पदानि ध्रुवाण्येव भवन्ति, बन्धकानामतिबहुतयाऽन्याऽन्यजीवानां नैरन्तेर्येण भूयस्कारादिबन्धकतया परिणतेः । अत एवौषतस्तिर्यग्ग
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only