SearchBrowseAboutContactDonate
Page Preview
Page 544
Loading...
Download File
Download File
Page Text
________________ ॥ अथ पञ्चमं भङ्गविचयद्वारम् ॥ साम्प्रतं नानाजीवाश्रितेषु भङ्गविचयादिद्वारेषु क्रमप्राप्ते "भङ्गविचयो" इत्यनेनोदिष्टे भङ्गविचयाभिधे पश्चमे द्वारे नानाजीवाश्रयां भङ्गविचयप्ररूपणां चिकीपुर्वक्ष्यमाणकरणेन भङ्गविचयोत्पत्तो बीजभूतं तत्तद्भूयस्कारादिवन्धकपदानां ध्रुवत्वादिकमादौ तावदोघत आह सत्तण्ह बंधगा खलु भूगाराईण तिण्ह णियमात्थि। भयणीआऽवत्तव्वस्साउस्स पयाण दोण्ह धुवा ॥५९७॥ (प्रे०) “सत्तण्ह बंधगा” इत्यादि, आयुर्वर्जानां सप्तानां मूलप्रकृतीनां “भूगाराईण" त्ति 'भूयस्कारादीनां'-भूयस्काराऽल्पतरावऽवस्थितलक्षणानां त्रयाणां स्थितिबन्धविशेषाणां प्रत्येक 'बन्धकाः'-निर्वर्तकाः "णियमाथि" त्ति नियमात् सन्ति,नियमस्य त्रिकालापेक्षया कृतत्वादोघचिन्तायां तद्वन्धकानां न कदाचिदभावो लभ्यत इत्यर्थः । ध्रुवपदान्येतानीति यावत् । “भयणीआऽवत्तव्वस्स" त्ति तेषामेव सप्तानामवक्तव्यस्थितिबन्धस्य 'भजनीयाः' -भाज्याः, कदाचिलभ्यन्ते कदाचित्तु नेत्यर्थः । अध्रुषपदमेतदिति यावत् । “उस्स पयाण दोण्ह” त्ति विश्लेशप्राप्तस्याऽऽकारस्य पूर्व दर्शनादायुषोऽल्पतरावक्तव्यस्थितिवन्धलक्षणयोर्द्वयोरपि पदयोः “धुवाः' ति बन्धका ध्रुवाः, सर्वदा लभ्यन्त इत्यर्थः। अत्र भंगविचयप्रस्तावेऽपि भयस्कारादिस्थितिबन्धकपदानां ध्रुवाध्रुवत्वप्रदर्शनं ध्रुवाध्रुवपदैरेव वक्ष्यमाणकरणेन भङ्गविचयोत्पत्तेरितिज्ञेयम् । तत्तत्पदानां ध्रुवा-ऽध्रुवत्वोपपत्तिस्तु मार्गणास्थानेषु तत्तत्पदानां वक्ष्यमाणध्रुवाऽध्रुवत्वोपत्तिवत्कार्येति ॥५९७।। तदेवं दर्शितान्योघतो भङ्गविचयप्रयोजकानि ध्रुवाध्रुवपदानि । साम्प्रतमादेशतो दिदर्शविषुः सप्तप्रकृतिसत्कभूयस्कारादिस्थितिबन्धकपदानां ध्रुवत्वादिकं दर्शयति तिरिये सवेगिंदियणिगोअ-सेससुहमेसु वणकाये । पुहवाइ चउसु तेसिं बायर-बायरअपज्जेसु ॥५९८॥ पत्तेअवणे तस्स य असमत्ते कायुरालियदुगेसु। कम्मण-णपुंसगेसु कसायचउगे अणाणदुगे ॥५९९॥ अयताऽचक्खूसु तहा अपसत्थतिलेस-भवियेसु। अभविय-मिच्छत्तेसु असण्णि-आहारगियरसु॥६००॥ (उपगीतिः) सत्तण्ह बंधगा खलु भूगाराईण तिण्ह णियमाऽत्थि । एआसु अवत्तबो जहि तहि से अस्थि भयणीया ॥६०१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001852
Book TitleThiaibandho
Original Sutra AuthorN/A
AuthorPremsuri
PublisherBharatiya Prachyatattva Prakashan Samiti
Publication Year
Total Pages762
LanguageSanskrit, Prakrit
ClassificationBook_Devnagari & Karma
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy