________________
४७० ]
प्रोघतः सर्वमार्गणासु च
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुषोऽल्पतरा ऽवक्तव्यः
आयुषोऽल्पतरा ऽवक्तव्य स्थितिबन्धयो रेक जीवाश्रयान्तरप्रदर्शक यन्त्रम्
श्रवक्तव्या-ऽल्पतरस्थितिबन्धयोः
प्रत्येकम्
सर्वथा - ऽनुत्कृष्टस्थितिबन्धान्तरवत्
Jain Education International
अन्भहियपुव्व कोंडी गुरु असण्णम्मि होइ सेसासु ं । साहियतेत्ती सुदही उक्कोसं अंतरं यं ॥ ५९६ ॥
1
(प्रे०) "अभहियपुव्व कोडी" इत्यादि, असंज्ञिमार्गणायां "गुरु" ति प्रकृतमायुपोऽल्पतरा-ऽवक्तव्यस्थितिबन्धयो प्रत्येकं 'गुरु' - उत्कृष्टमन्तरमभ्यधिकपूर्वकोटिः, देशोनपूर्वकोटितीयभागेनाभ्यधिकपूर्व कोटी वर्ष प्रमाणं भवतीत्यर्थः । एतच्च प्रागुक्तकाययोगसामान्यमार्गणावद्भावनीयम्, नवरमुत्कृष्टस्थितिकासंज्ञिनो भवद्रयमपेक्ष्येति । "सेसासु" त्ति यास्त्रायुर्वन्धो भवति ताभ्योऽनन्तरोक्ता मनोयोगाद्यसंज्ञिपर्यन्ता मार्गणा विविच्य शेषासु पञ्चेन्द्रियौघादि त्रयोविंशतिमार्गणा प्रत्येकमायुषो द्विविधस्थितिबन्धस्योत्कृष्टमन्तरं साधित्रयस्त्रिंशदुदधयो ज्ञातव्यमि - त्यर्थः । शेषमार्गणा नामत इमाः - पञ्चेन्द्रियौघ-पर्याप्तपञ्चेन्द्रिय-त्रसकायौघ-पर्याप्तत्र सकायवेद - पु . सकवेद-मत्यादित्रिज्ञान- मत्यज्ञान - श्रुताज्ञाना-संयम-चक्षुरादित्रिदर्शन भव्या-भव्य- सम्यक्त्वौघ-क्षायिक-क्षायोपशमिकसम्यक्त्व-मिथ्यात्व-संज्ञयाऽऽहारिमार्गणा इति । एतासु प्रत्येकमुत्कृष्टस्थितिकायुर्वद्ध्वा सप्तमभूमौ नारकतयोत्पादे ऽनुत्तरविमाने देवतयोत्पादे वा तत्राऽपि प्रकृतपञ्चेन्द्रियौघादिमार्गणा अनुवर्तन्ते, ततश्च प्रथमे पूर्वकोटीस्थितिकमनुष्यादिभव उत्कृष्टावाधायां प्रथमवारं तदनन्तरं तूत्कृष्टस्थितिके निरयभवे देवभवे वा जघन्यावाधायां द्वितीयवारमायुर्वन्वं कुर्वन्तं जीवमपेक्ष्य प्रकृतान्तरं प्राप्यते, अतस्तदधिकपदेन पूर्वकोटीतृतीयभागेनाभ्यधिकानि त्रयस्त्रिंशत्सागरोपाणि वेदितव्यमिति ॥ ५९६ ॥
तदेवमभिहितमायुषोऽल्पतरा ऽवक्तव्यस्थितिबन्धयोः प्रकृतमेकजीवाश्रयमन्तरं शेषमार्गस्वपि, तस्मिँश्चाभिहिते गतं चतुर्थमेकजीवाश्रितमन्तरद्वारम् ||
॥ इति श्रीबन्धविधाने मूलप्रकृतिस्थितिबन्धे तृतीये भूयस्काराधिकारे चतुर्थं नानाजीवाश्रयमन्तरद्वारं समाप्तम् ॥
★ श्रायुषोऽनुत्कृष्टस्थितिबन्धान्तरप्रदर्शकं यन्त्रं तु २३६ तमे पृष्ठ प्रालिखितम् ।
For Private & Personal Use Only
www.jainelibrary.org