________________
४६८ ]
बंधविहाणे मूलपयडिठिइबंधो [ मार्गणास्वायुषोऽल्पतरा-ऽवक्तव्यः दिति । भावना काययोगसामान्यवदपर्याप्तोत्कृष्टभवद्रयापेक्षया द्रष्टव्येति । अथ स्त्रीवेदमार्गणायामाह-"अब्भहिया" इत्यादि, स्त्रीवेदमार्गणायामधिकृतं 'गुरु'-उत्कृष्टमन्तरम'भ्यधिकानि'-पूर्वकोटीत्रिभागेनाभ्यधिकानि पञ्चपञ्चाशत्पल्योपमानि ज्ञेयम् । “पलिया" इत्यत्र पुंस्त्वं प्राकृतवशात् । प्राकृते हि लिङ्गमतन्त्रम् । यदाहुः श्रोहेमचन्द्रसूरिपादाः स्वप्राकृतलक्षणे 'लिङ्गमतन्त्रम्' (सिद्धहेम० ८।४।४४५) इति । अत्र पूर्वकोटीतृतीयभागः पूर्वकोट्यायुष्कमनुष्यावस्थायामु-कृष्टाबाधायां प्रथमवारमायुर्वन्धकरणाच्छेपमनुष्यभवसत्कः, पञ्चपञ्चाशत्पल्योपमानि तूत्कृष्टस्थितिकदेवीतयोत्पय तत्रान्तमुहूर्तात्मिकायामसंक्षेप्याद्धायां द्वितीयवारमायुर्घन्धकरणादायुबन्धात्यागतीतदेवभवसत्कानि, शेषं तु प्राग्वद्योज्यमिति ॥५९३॥
मणणाण-संयमेसु समइअ-छेअ-परिहार-देसेसु । उक्कोसं पुवाणं कोडितिभागो उ देसूणो ॥५९४॥
(प्रे०) "मणणाणे” त्यादि, मनःपर्यवज्ञान-संयमोघमार्गणयोः सामायिक-छेदोपस्थापनपरिहारविशुद्धिक-देशसंयममार्गणासु च प्रत्येकम् “उक्कोस” ति आयुषोऽल्पतरावक्तव्यस्थितिबन्धयोः प्रत्येकमुत्कृष्टं दीर्घमन्तरं "पुव्वाणं कोडितिभागो उ देसूणो” त्ति पूर्वाणां 'पुत्र्यस्स उ परिमाणं' इत्यादिनाऽन्यत्रोक्तस्वरूपाणां या कोटिस्तस्याः "तिभागो" ति तृतीयभाग इति पूर्वकोटित्रिभागः स च "देसूणो” ति अन्तर्मुहूर्त लक्षणेनैकदेशेनोनः, अन्तमुहूर्तन्यूनपूर्व कोटितृतीयभाग इति भावः । तद्यथा-संयमिनो देशसंयमिनश्चोत्कृष्टतः पूर्वकोटीवायुका एव सन्ति, तेषु केनाप्युत्कृष्ठावाधायां प्रथमाकर्षेण, ततोऽसंक्षेप्यावायां द्वितीयाकणेत्येवं द्विरायुर्वन्धे कृते प्रकृतान्तरं यथोक्तप्रमाणमवाप्यत इति ॥५९४॥ अथ विभङ्गज्ञानमार्गणापामाह
विभंगे देसूणा जेट्टा कायट्टिई मुणेयव् ।
देसूणा छम्मासा हवइ ति भणन्ति अण्णे उ ॥५९५॥
(प्रे०) "वि-भंगे” इत्यादि, विभङ्गज्ञानमाणिायां 'ज्येष्ठा'-उत्कृष्टा "कायष्ठिई" ति 'कायठिई उक्कोसा णिरयसुराणं विभङ्गणाणस्स' इत्यादिना पूर्व कालद्वारेऽभिहितमाना देशोनपूर्वकोट्यभ्यधिकत्रयस्त्रिंशत्सागरोपमाणि विभङ्गज्ञानमार्गगाया एकजीवाश्रया कायस्थितिः 'देसूणा' त्ति किश्चिद्नपूर्वकोटितृतीयभागयलक्षणेनेकदेशेनोना सती प्रकृतयोरायुपोऽल्पतरा-ऽवक्तव्यलक्षणस्थितिबन्धयोः प्रत्येकमुत्कृष्टमन्तरं ज्ञातव्यम् । अत्रैव महावन्धकाराभिमतमाह-“देसूणा छम्मासा" इत्यादि, सुगमम् , तन्मते नारकेष्वपर्याप्तावस्थायां विभङ्गज्ञानस्यानभ्युपगमात् , तिर्यग्नरेत्कृष्टतो निरन्तरमन्तमुहूतमेव विभङ्गज्ञानस्य स्वीकृतत्वाच्च । विशेषतस्तु प्रस्तुतमार्गणायां द्वितीयाधि कारकजीवाश्रयकालद्वारदर्शिताऽऽयुरनुत्कृष्स्थितिबन्धोत्कृष्टान्तरवद्विभावनीयमिति ॥५९५॥
अथ शेषमार्गणासु प्रकृतान्तरं दिदर्शयिपुरेकामा माह
Jain Education International
www.jainelibrary.org
For Private & Personal Use Only